________________
नवमः सर्गः ]
स्वकर्मफलभोगेन, संसाराब्धौ शरीरिणः । बुद्बुदा इव यान्त्येके, समायान्त्यपरे पुनः ॥७३॥ यदेवेष्टवियोगादि, विरक्तेः कारणं सताम् । मोहान्धानां तदेवाहो !, क्रोध-शोककरं परम् ॥७४॥ न चक्रिणा न शक्रेण, कृतविक्रमसङ्क्रमम् । विश्वैकवीरमाख्यान्ति, दैवमेवंविधं बुधाः ॥७५॥ स्वामिन् ! सैन्येन दैन्येन, सेवितैः परिदेवितैः । असौ प्रकृतिदुर्दान्तः, कृतान्तः केन गृह्यते ? ॥७६॥ इदं वचः समाकर्ण्य, मतिसागरमन्त्रिणः ।
कृपाणं पाणिनाऽऽकृष्य, धावितः पृथिवीपतिः ॥७७॥ कृतं कृतान्त ! गर्वेण, व्रज दृष्टिपथं मम । यथा तवैतद्व्यसनं, छिनद्मि च्छद्मसद्मनः ॥७८॥ अनल्पमिति जल्पन्तमल्पितारिपराक्रमम् । साटोपकोपं भूपालमुवाच सचिवेश्वरः ॥७९॥
किं दैवं ? देव ! कश्च त्वं ?, संरम्भः कं प्रति प्रभो ! ? | विचारय रयं त्यक्त्वा, न शक्यमिदमस्ति यत् ||८०|| तदेव दैवं यत् कुर्यात् कर्म जन्तुः शुभा - ऽशुभम् । शोभैव सृष्टि-संहारकारिकारणवर्णना ॥८१॥
तत् परित्यज्य संरम्भमुत्तरास्त्वं कुरु क्रियाः । अनित्यं विश्वमालोक्य, स्थैर्योपायपरो भव ॥८२॥
§§ सुप्रातमङ्गलाचारचारुराविरभूदथ ।
मांसलो दुन्दुभिध्वानैर्गभीरः शङ्खनिस्वनः ॥८३॥ अथ सत्वरमागत्य, कश्चिदाश्चर्यतत्परः । उद्यदानन्दसन्दोहमेदुराश्रुरदोऽवदत् ॥८४॥ आन्ध्यहेतुतमःस्तोमच्छेदभासुरभास्वतः । दिष्ट्या त्वं वर्धसे देव !, युगबाहोरिहागमात् ॥८५॥
१. 'भास्वरभास्व खंता० ॥
D:\maha-k.pm5\ 2nd proof
[ २१३
5
10
151
20
25