________________
२१२]
10
_ [ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् ६६ अथ कर्त्तव्यमूढास्ते, सैनिकाः साश्रुचक्षुषः ।
सन्ति गङ्गातटे यावत् , कुमारादर्शनाकुलाः ॥६०॥ तावत् तन्नाशसाक्षित्वपातकादिव पातुकः । आससाद निघिर्धाम्नामस्तपर्वतमस्तकम् ॥६१॥ युग्मम् ।। अस्तोकशोकभृल्लोकचक्रं चक्रन्द चक्रवत् । तत्र मित्रे स्फुरद्वृत्तावेशे देशान्तरं गते ॥६२।। दिदृक्षुरिव तं भानुः, कुमारं मारविग्रहम् । पाथोनाथपथेनाथ, पातालमुपजग्मिवान् ॥६३।। अथो पुरान्तरागत्य, सैनिका निशि दुःखिनः । वार्तामार्त्ताशयाः सर्वां, कथयामासुीरशितुः ॥६४।। दम्भोलिनेव भूपालस्ताडितो हृदयेऽपतत् । तद्वार्तादुःखसङ्घट्टजन्मना शोकशङ्कना ॥६५॥ मुक्त्वा शोकं कुमारस्याधावल्लोको नृपान्तिकम् । चन्दन-व्यजनादीनि, सकलः कलयन् करे ॥६६॥ तेन शैत्योपचारेण, कृतेन कृतिनां वरः । अथ प्रथितचैतन्यो, जगाद जगतीपतिः ॥६७।। क्व सा भक्तिः? क्व सा शक्तिः?, क्व सा क्षान्तिः? क्व सा मतिः? । एकैकशोऽपि दृश्यन्ते, हा हन्त ! न हि ते गुणाः ॥६८॥ त्वं तातवत्सलो वत्स !, जन्मतोऽपि प्रभृत्यभूः । मां जराजर्जरं हित्वा, तत् सम्प्रति गतः कुतः ? ॥६९।। उपेक्ष्य प्रेक्षणीयानां, मूर्धन्य ! स्वां कुलश्रियम् । कन्याकृते त्यजन् प्राणान् , स्थूललक्ष्योऽसि निश्चितम् ॥७०॥ अमात्योऽपत्यदुःखेन, विलपन्तं पतिं भुवः । अभाषिष्ट तदाऽऽचारविचाररुचिरं वचः ॥७॥ भवादृशां विशांनाथ !, पाथोनाथगभीरिमन् ! ।
युक्तं भवे भवेदेव, न देव ! परिदेवनम् ॥७२।। १. रद्धृत्यावे खंता० ॥ २. °न, प्रलप खंता० ॥ ३. °दा चारुविचा खंता० ॥
20
D:\maha-k.pm5\2nd proof