________________
[२११
नवमः सर्गः]
स तथा प्रतिपद्याथ, गङ्गार्णोऽभ्यर्णमागतः । निर्वर्त्य विविधां पूजां, चिक्षेप स्वर्णपुत्रकम् ॥४७।। हु अथैतस्मिन्नवसरे, तस्मिन् परिसरे कृती ।
कस्याश्चिच्चारुनेत्रायाः, शुश्राव करुणध्वनिम् ॥४८।। दिक्षु चक्षुः क्षिपन्नेष, दिदृक्षुर्विधुरां स्त्रियम् । उपकारमना यावदस्ति क्षितिपनन्दनः ॥४९।। तावदाविरभूदम्भोमध्ये काऽपि मृगेक्षणा । कुररीकरुणध्वानैर्द्रावयन्ती जलेचरान् ॥५०॥ साऽऽह साहसिकोत्तंसः, कश्चिदस्ति क्षितौ नरः । गङ्गोपहारभूतायाः, शरण्यः स्यान्ममात्र यः ? ॥५१॥ रत्नगर्भाऽपि वन्ध्याऽसि, कुतो देवि ! वसुन्धरे ! । यन्न जातस्त्वया कोऽपि, मत्प्राणत्राणकारणम् ॥५२॥ श्रुत्वेति वचनं तस्या, भग्नेऽन्येषां पराक्रमे । स चचाल स्थिरस्थामसिन्धरः सिन्धरोधसः ॥५३।। तदाऽवगणयन्नेष, परिवारनिवारणम् । धीरोद्धतपदन्यासैः, कम्पयन्निव मेदिनीम् ॥५४॥ वार्यमाण इवाम्भोभिलुंलद्धिः सम्मुखागतैः । सेव्यमानो यशोबीजैरिव पाथ:कणोत्करैः ॥५५॥ उहिधीर्षरिमां कन्यां वाहिनीवाहवाहिताम । विवेश लसदावेशः, परोपकृतये नदीम् ॥५६।। विशेषकम् ।। वीक्षितः सैनिकैः कन्यामुद्दिधीर्षुर्महीमिव । स्फुरन्नन्तर्जलं सोऽयं, नारायण इवाबभौ ॥५७॥ प्लवमानो यदैतस्याः, समीपं समुपागतः । कुमारस्तावदेषाऽपि, दूराद् दूरतरं ययौ ॥५८।। हर्षोत्कर्षेण सैन्यस्य, तया च मृगचक्षुषा ।
समकालमदृश्यत्वं, भेजे भूमिभुजाङ्गजः ॥५९।। १. °रणाम् पाता० ॥ २. गमत् । कुमा' खंता० ॥
D:\maha-k.pm5\2nd proof