________________
२१०]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् निर्ममे निर्ममेशस्य, शस्यमस्य निशम्य च । तेन चित्ते वचोऽक्लेशदेशनावेशपेशलम् ॥३५॥ कलाकामगवी नाम, शारदा तत्र विद्यते । युगबाहुस्तपः कुर्वंस्तत् तदाराधनं व्यधात् ॥३६।। आराधनधनो धीमांस्तपस्तपनदुस्सहः । षण्मासान् स समासक्तस्त्रिसन्ध्यं साधितक्रमः ॥३७।। अथ पान्थवधूकोपकटाक्षच्छुरितद्युतिः । कालः सविधुदम्भोदमेदुरः समुपागमत् ॥३८॥ अम्भोदपटलैोम्नि, च्छादितः सितदीधितिः । मुखेन्दुः पान्थनारणां, सकज्जलजलाश्रुभिः ॥३९।। अपवारितरङ्गेण, सिन्धुना कार्यमाप्यत । अपवारितरङ्गेण, स्थितं भास्करतेजसा ॥४०॥ उल्लासिता क्षता चैव, बहुकोकनदावलिः । वाहिन्यो भूभृतां भेजुः, सङ्कोचं चोच्छ्रयं च ताः ॥४१॥ एवंविधेऽथ कालेऽस्मिन् , राजानं शत्रुमर्दनम् । कश्चिद् विज्ञपयामास, समासन्नो नियोगवान् ॥४२॥ तुङ्गरङ्गत्तरङ्गौघपातितासन्नकानना । निर्मर्यादं समायाति, गङ्गा देव ! पुरं प्रति ॥४३।। गङ्गाप्रवाहादेतस्मान्नागराः सागरादिव । त्रातरातुरतां भेजुस्तद् यत्नः क्रियतां प्रभो ! ॥४४।। समादिश विशामीश !, यत् कर्त्तव्यं विशारद ! । निशम्य सम्यगेतस्मादादिदेश नृपः सुतम् ॥४५॥ स्वर्णपुत्रकमादाय, गच्छ त्वं वत्स वत्सल ! । पूजानिर्वर्तनेनास्याः, शान्ति सम्पादय द्रुतम् ॥४६॥
१. ताऽक्ष पाता० ॥ २. °स्मिन्नेत्य राजानमाकुलः । कश्चिद् खंता० ॥ ३. भेजे, तद् खंता० ॥
D:\maha-k.pm5\2nd proof