________________
नवमः सर्गः ]
तस्याः शस्यामिमां वाचं, समाकर्ण्य नरेश्वरः । आरादाराधयामास, त्रिसन्ध्यं कुलदेवताम् ॥२३॥ तत्प्रसादं समासाद्य, सद्यो विकसिताकृतिः । तस्यामुत्पादयामास, क्षत्रगोत्रस्तुतं सुतम् ॥२४॥ एतस्य स्थापिते नाम्नि, युगबाहुरिति क्रमात् । समं मनोरथै राज्ञो, वर्धमानो मनोहरैः ॥ २५ ॥ कियत्यपि गते काले, पण्डितेभ्यः पठन्नयम् । प्रज्ञावज्ञातवागीशः, प्रपेदे सकलाः कलाः ॥२६॥ युग्मम् ॥ अथान्यदा समायातस्तदुपाध्यायमन्दिरे । विपश्चित् कश्चिदतिथिः, सोऽभाषिष्ट ससौष्ठवम् ॥२७॥ ब्रूत लोकोत्तरस्फूर्तिः, कथं भूयात्, पुमानिति ? । जगदुर्जगतीशेन, गौडेनाभिहिता बुधाः ॥२८॥ शस्त्रे शास्त्रे च जागर्ति, यस्य कीर्तिरनुत्तरा । भाषितः पुरुषः सैष, बुधैर्लोकोत्तरः परम् ॥२९॥ तथा यतेथास्तद् वत्स !, शत्रुमर्दननन्दन ! | यथा शस्त्रे च शास्त्रे च तवाद्वैतं भवेद् यशः ||३०|| उपाध्यायगिरं ध्यायन्निमामेव नृपाङ्गजः । जगाम ग्रामणीः पुंसां, मुनिपार्श्वे बहिर्वने ॥३१॥ नमस्कृत्य मुनीनाह, साहसोत्साहवानसौ । लोकत्तरकलावाप्तिः, केनोपायेन जायते ? ||३२||
[२०९
तेऽप्याहुः शृणु भूपालपुत्र ! सुत्रामविक्रम ! । कर्मानुकूल्येनैवैतत्, सर्वं सम्पद्यते शुभम् ||३३||
पञ्चम्यादितपोयोगैर्देवताराधनेन च ।
तदभिव्यक्तिमायाति, मायातिगशुभं नृणाम् ॥३४॥
१. ब्रूथ लो° खंता० । कथं लो° पाता० ॥। २. ° गदीशे° खंता० ॥ ३. °त्स !, विक्रमक्ष्मापनन्द खंता० ॥
D:\maha-k.pm5 \ 2nd proof
5
10
15
20