________________
२०८]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अन्यदाऽन्तःपुरं यातः, प्रातः प्राणप्रियां नृपः । ददर्श दर्शनीयश्रीश्चिन्त्याऽऽचान्तचेतनाम् ॥१०॥ जगाद सादरं भूपः, स्वरूपविजितस्मरः । तद्दुःखहेतुजिज्ञासुर्वितर्काकुलमानसः ॥११।। सकज्जलेक्षणजलैः, कपोलफलके लिपिः । येयं विलिखिता देवि !, सैव ब्रूते शुचं तव ॥१२॥ निःश्वासधूमवत्त्वेन, हेतुना दुःखकेतुना । कश्चिच्चिन्तानलश्चित्ते, जागरूकोऽनुमीयते ॥१३।। समादिश शुचां हेतुं , तत् प्रसीद् प्रिये ! मम । कः स्वजीवितसावज्ञस्तवाज्ञाखण्डनं व्यधात् ? ॥१४।। चक्रे केनापराधो वा, यमवेश्म यियासुना ? । मुमूर्षणाऽथ मूर्खेण, केन तेने पराभवः ? ॥१५।। कच्चित् किञ्चिन्मयैवाथ, न हितं विहितं तव ? । किं वा राज्येऽपि तद् यन्न, त्वदायत्तं मम प्रिये ! ? ॥१६॥ वितर्कशतसम्मूढं, ननु ताम्यति मन्मनः । अधीतपूर्वं यन्नैतन्महत्यप्यरिसङ्कटे ।।१७।। तत् प्रक्षाल्य जलैदेवि !, बाष्पाम्भ:कलुषं मुखम् । शशाङ्क: साङ्कपङ्कोऽयं, चिरान्न्यत्क्रियतां त्वया ॥१८॥ इतो विलोकय ततो, विशालाक्षि ! प्रसीद मे । भवत्वेष जनस्तूर्णं, नीलोत्पलपराङ्मुखः ॥१९॥ प्रदेश: पेशलालापैर्भूयाद् भूयः प्रिये ! तव । राजहंसाङ्गनावृन्दमञ्जुकूजितपूजितः ॥२०॥ इत्युक्त्वाऽवस्थिते राज्ञि, मौनमूनीकृतद्विषि । उवाच वाचं दन्तांशुस्फुरणेन शरीरिणीम् ।।२१।। न भर्तर्वर्तते किञ्चिदन्यदुःखस्य कारणम् ।
लालितायास्त्वया पत्या, विहाय निरपत्यताम् ॥२२॥ १. °ज्ञि, सा मुखेन्दुसुधोज्ज्वलाम् । उवाच इति खंता० पाठः ।।
20
25
D:\maha-k.pm5\2nd proof