________________
नवमः सर्गः ॥
तपः सम्पल्लतामूलं, दुःखकक्षाऽऽशुशुक्षणिः । इष्टार्थराजीराजीवखण्डमार्तण्डमण्डलम् ॥१॥ परापरमहासिद्धिसौधाग्रोत्सङ्गमिच्छुना ।
तपःसोपानमास्थेयं, तद्यथा युगबाहुना ॥२॥ [तपोमाहात्म्ये युगबाहुचरितम्] हु६ पाटलीपुत्रमित्यस्ति, पुरं सुरपुरोपमम् । रत्नसौधसदालोके, यत्र मित्रत्विषो वृथा ॥३॥ एतस्मिन् रत्नगर्भाया, रहस्य इव पत्तने । गौणमेवानुमन्यन्ते, धनदं धनिनो जनाः ॥४॥ तत्र क्षत्रियकोटीरकोटीरश्मिस्मितक्रमः । क्रमनिर्यद्यशः सिन्धुः, सिन्धुगाम्भीर्यधुर्यधीः ॥५॥ भुवोऽभवद् विभुः कीर्तिविनिर्जितसितद्युतिः । चण्डांशुदुःसहः शत्रुमर्दनः शत्रुमर्दनः ॥६॥ अभून्मदनरेखेति, कलत्रं तस्य भूभुजः । यदास्यदास्यवानासीदङ्कितस्तुहिनद्युतिः ।।७।। धरित्रीशस्य मन्त्रीशस्तस्यासीन्मतिसागरः । राज्ये यद्बुद्धिविध्वस्तशत्रौ शोभैव पत्तयः ।।८।। तेनोढप्रौढसौराज्यभरो विश्वम्भराविभुः । वैशारद्यं सुखस्वादेष्वाससाद प्रियान्वितः ॥९॥
१. नाम्ना विक्रमबाहुः श्रीसङ्केततैकनिकेतनम् ॥६॥ युग्मम् ॥ इत्येवंरूपः पाठः खंता० ॥
D:\maha-k.pm5\2nd proof