________________
२०६]
[सङ्गपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् जीयात् काचिद् विश्वजैत्री धरित्र्यां, सौभाग्यश्रीरद्भुता जम्बुनाम्नः । लब्धे यस्मिन् केवलज्ञानलक्ष्मीर्धन्यम्मन्या नान्यमभ्याजगाम ॥८५४॥ ॥ इति श्रीविजयसेनसूरिशिष्यश्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनाम्नि श्रीसङ्घपतिचरिते लक्ष्यके महाकाव्ये
जम्बूस्वामिचरितवर्णनो नामाष्टमः सर्गः समाप्तः ॥ खेलद्भिः खरदूषणास्तसुभगैः क्षीराब्धिबन्धोद्धतैरुच्चै रावणनाशभासुरतमैरेभिर्यशोभिर्निजैः । भूमि भूषयति त्रयी तनुकुलक्षोणीधवस्पर्धया, श्रीसोमान्वयसम्भवोऽपि सपदि श्रीवस्तुपालः कृती ॥१॥ अन्तः कज्जलमञ्जुलश्रि यदिदं शीतयुते?तते, तन्मूढाः कवयन्ति लक्ष्म न वयं सूक्ष्मेक्षिकाकाङ्क्षिणः । यद्यात्रोत्सवमद्भुतं रचयता श्रीवस्तुपाल ! त्वया, शीतांशौ लिखितं स्वनाम तदिदं प्रत्यक्षमुवीक्ष्यते ॥२॥
॥ ग्रन्थाग्रम् ८६१ ॥ उभयग्रन्थाग्रम् २५४६॥
15
१. °न्धोद्धरैरुच्चै खंता० पाता० ॥ २. तरैरे खंता० पाता० ॥ ३. यन्मू वता० ॥ ४. म् २५४७ खंता० ॥
D:\maha-k.pm5\2nd proof