________________
अष्टमः सर्गः]
[२०५ "अपृच्छच्च प्रभो ! कोऽयं, द्विपेष्विव सुरद्विपः । सुधांशुरिव धिष्ण्येषु , त्रिदशादिरिवाद्रिषु ॥८४३॥ शालिधान्यमिवान्नेषु , कल्पद्रुम इव द्रुषु । अम्भोधिष्विव दुग्धाब्धिश्चम्पकं कुसुमेष्विव ॥८४४।। हिरण्यमिव लोहेषु , रसेष्विव सुधारसः । अद्भुतस्तव शिष्येषु , सविशेष प्रदीप्यते ?" ॥८४५॥ विशेषकम् ॥ भूनाथं प्रत्यथोवाच, वाचंयमचमूपतिः । श्रीजम्बूस्वामिनः पूर्वजन्मवृत्तान्तमादितः ॥८४६॥ तपःप्रभावप्रभवं, रूपं सौभाग्यमस्य च । चरमं केवलित्वं च, विच्छेदं च ततः परम् ॥८४७।। युग्मम् ॥ 10 तदाकार्ण्य महीनाथो, हृष्टश्चम्पापुरीं ययौ । जम्बूयुतः सुधर्माऽपि, श्रीमहावीरमभ्यगात् ॥८४८।। श्रीमहावीरपादान्ते, दान्तेन्द्रियगणो गणी । जन्तुजातोपकाराय, विजहार धरातले ॥८४९॥ ततः श्रीवीरनिर्वाणाद् , व्यतीत्य दशहायनीम् । जम्बूस्वामिनमाधाय, गच्छभारधुरन्धरम् ।।८५०।।
गणाधीशे, श्रिते निःश्रेयसश्रियम । जम्बूः प्रबोधयामास, महीं नवदिवाकरः ॥८५१॥ युग्मम् ।। अथ वर्षचतुःषष्टौ, गतायां वीरनिर्वृतेः । श्रीजम्बूस्वामिना चक्रे, गच्छेशः प्रभवः प्रभुः ॥८५२॥
20 इत्थ ब्रह्मव्रतमयमहःसंहृतध्वान्तबन्धः, श्रीमज्जम्बूमुनिदिनपतिर्दत्तविश्वप्रबोधः । नि:सामान्यक्रमसमुदितोद्दाममाहात्म्यसम्पल्लक्ष्मी नित्याभ्युदयसुभगम्भावुकामाससाद ॥८५३।।
१. आपृच्छच्च खंता० ॥
D:\maha-k.pm5\2nd proof