________________
२०४]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् बन्दिवृन्दमुखोद्धृष्टस्मरवीरजयोर्जितः । महामोहमहीपालमभिषेणयितुं ययौ ॥८३०।। एकादशभिः कुलकम् ॥ सुधर्मस्वामिपादाब्जपावनं वनमीयिवान् । याप्ययानात् समुत्तीर्य, प्रतीष्टाचारमङ्गलः ॥८३१॥ प्रविश्य मध्यं पञ्चाङ्गसङ्गतक्षितिमण्डलः । प्रणम्य गणभृन्नाथं, जम्बूस्वामी व्यजिज्ञपत् ॥८३२।। युग्मम् ।। संसारसागरोत्तारकर्णधार ! मुनीश्वर ! । मां कुटुम्बं च चारित्रयानपात्रेण तारय ॥८३३।। ततः स्वपाणिपद्मन, गणधारिधुरन्धरः ।
स्वजनैरन्वितं जम्बूकुमारं तमदीक्षयत् ॥८३४॥ I प्रभवोऽप्यन्यदाऽभ्येत्य, सुधर्मस्वामिसन्निधौ ।
भावशत्रुप्रतिक्षेपदक्षो दीक्षामुपाददे ॥८३५।। गणधारिधुरीणेन, तदानीं प्रभवो मुनिः । कृतः सुकृतवान् जम्बुपादाम्बुजमधुव्रतः ॥८३६।। जम्बूप्रभृतिभिः शिष्यैः, कलितः कलभैरिव । अन्यदा गणभृच्चम्पां, यूथनाथ इवागमत् ।।८३७।। तस्यां च बहिरुद्याने, गणभृत् सपरिच्छदः । देहिनां देहवान् पुण्यवासरः समवासरत् ॥८३८॥ ततस्तदीयपादारविन्दवन्दारवो जनाः । आययुर्ययुमुख्यानि, वाहनानि समाश्रिताः ॥८३९।। लोकमालोकयन् यान्तं, कोणिकः श्रेणिकात्मजः । सद्यो मेदुरितानन्दो, राजाऽप्युद्यानमागमत् ॥८४०॥ स पुण्यलभ्यमभ्यर्च्य, गणभृच्चरणाम्बुजम् । आसीन: श्रोत्रमसृणामशृणोद्धर्मदेशनाम् ।।८४१।। देशनान्ते प्रभोः शिष्यवर्गे जम्बूमुनि नृपः ।
पुरः स्मरमिवाद्राक्षीद् , भवभीत्या धृतव्रतम् ।।८४२॥ १. °रः स्मेर पाता० ॥
20
25
D:\maha-k.pm5\2nd proof