________________
अष्टमः सर्गः]
[२०३ IF उवाच प्रभवोऽप्युच्चैर्महासत्त्व ! भवद्गुणैः ।
कृष्ठस्त्वामनुयास्याम, पितॄनापृच्छ्य निश्चितम् ॥८१७।। मा प्रमादीमहाभाग !, विवेकोचितमाचरेः । इत्युक्तो जम्बुना यातः, प्रभवो भवनं निजम् ॥८१८॥ ज्ञात्वा जम्बूकुमारस्य, सदारस्यापि निश्चयम् । श्वशुराः पितरौ चासँस्तमेवानुयियासवः ॥८१९।। अथ जम्बूकुमारोऽपि, विधाय जिनपूजनम् । सङ्ख विधिवदभ्यर्च्य, सम्मान्य स्वजनादिकान् ॥८२०।। स्नानीयगन्धपानीयकृतमज्जनमङ्गलः । चन्दनेन सितध्यानेनेव सर्वाङ्गभासुरः ॥८२१॥ रत्नाभरणसम्भारैः, सत्त्वसारैरिवाञ्चितः । असमैः कुसुमैः स्वस्य, यशोभिरिव शोभितः ।।८२२।। लावण्याम्भोधिडिण्डीरपिण्डैरिव सितांशुकैः । दिव्यैः संवीतसर्वाङ्गः, कर्पूरा-ऽगुरुधूपितैः ॥८२३॥ दानैरानन्दयन् दीनाँस्तूर्यैर्मुखरिताम्बरः । बाह्यां नरसहस्रेण, शिबिकामधिरूढवान् ॥८२४।। जननान्तरसौहार्दरसेन सहचारिणा । अनादृतेन देवेन, कृतिनिष्क्रमणोत्सवः ॥८२५।। प्रवेशिताभिराक्रम्य, सैन्ये चारित्रभूभृतः । स्मरसेनासमानाभिः, प्रियाभिस्ताभिरन्वितः ॥८२६।। स्फूर्जज्जयजयारावप्रतिध्वानितदिङ्मुखः । मङ्गल्यधवलध्वानाकृष्टपौरवधूजनः ॥८२७।। दुर्घटं घटयन् घण्टापथे पाणिन्धमायितम् । मायूरच्छत्रखण्डेन, मण्डलं तिरयन् रवेः ॥८२८।। आलोक्यमानो लोकेन, विस्मयालोलमौलिना ।
पौरीभिर्दीयमानाशीरक्षतक्षेपपूर्वकम् ।।८२९॥ १.त्युक्ते ज° खंता० ॥ २. नमज्जन खंता० ॥ ३. °मैः कामं, य खता० पाता० ॥
D:\maha-k.pm5\2nd proof