________________
२०२]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् ६६ अत्र चोपनयो योऽभूल्ललिताङ्गोऽतिकामुकः ।
अतृप्तः कामभोगेषु , स संसारी शुचिस्मिते ! ॥८०४॥ आपातमधुरो यस्तु , परिणामे सुदुःसहः । राजस्त्रीभोगतुल्योऽसौ, विषयोत्थः सुखोदयः ॥८०५॥ तत्कूपकल्पगर्भान्तर्वासिनः फेलिकोपमैः । मातृभुक्तान्न-पानाद्यैर्धिगेतस्य भुजिक्रियाम् ॥८०६॥ कूपादिव ततो गर्भाद् , वाहितस्याथ बाह्यतः । सूतिकासदने तस्य, परिखोपमिका स्थितिः ॥८०७॥ धात्रिकोपमिता चात्र, सर्वोपग्रहारिणी । सेयं परिणतिः पूर्वकर्मणां परिभाव्यताम् ॥८०८॥ पुनः पुनर्नवीभूतं, वीक्ष्य राज्ञी स्मरातुरा ।
अन्तराऽऽकारयेच्चत्तं, तत् किं तस्यात्र युज्यते ? ॥८०९॥ ६६ अथोचुर्वनिताः सोऽयमल्पबुद्धिरपि प्रभो ! ।
स्मरन् विष्ठावटोद्भूतदुःखानां तत् करोति किम् ? ॥८१०।। अथोवाच प्रभुः सोऽपि, कदाचिन्मनुतेऽल्पधीः । अहं तु नानुमन्ये वो, वचः संसारकारणम् ॥८११।। इति जम्बूकुमारस्य, संवेगामृतनिर्झरैः ।।
वचोभिर्विषयाकाङ्क्षातापस्तासां शमं ययौ ॥८१२।। हुए अथोऽन्तरङ्गवैराग्यरसार्दीभूतचेतसः ।
अष्टावपि समं जम्बूकुमारमिदमभ्यधुः ॥८१३।। प्रमुखे सुखदैः स्वामिन् !, परिणामेऽतिदुःखदैः । इयत्कालं हहा ! कष्टं, विषयैर्वञ्चिता वयम् ॥८१४।। तत् त्वद्विवाहसम्बन्धादन्धात्तमसमज्जनात् । उद्धृताः स्मस्त्वया यद्वा, 'श्रेयसे सङ्गतं सताम्' ॥८१५।। आस्थितस्तत् त्वया पन्थाः, श्रितोऽस्माभिरपि स्वयम् ।
सहैव नेतर्नेतासि, त्वमस्मान् शिवपत्तनम् ॥८१६।। १. °ष्ठाचयोद्भू पाता० ॥ २. °न्धाम्भसि निमज्ज° पाता० ॥ ३. व तेन नेता खंता० ॥
25
D:\maha-k.pm5\2nd proof