________________
अष्टमः सर्गः ]
स्वयं तदा मुदा द्रष्टुं, शरत्कालभवां श्रियम् । आखेटकार्थं भूमीभृदलञ्चक्रे वनावनिम् ॥७९१॥ तदा च राजवेश्मान्तर्विजनीभूतभूतले । साऽनङ्गप्रतिमाव्याज्जाल्ललिताङ्गमवीविशत् ॥७९२।।
सस्वजे सुचिरात् प्राप्य, लीलावत्यथ तं तथा । यथा तेनैकतामाप, चेतनेवात्मना समम् ॥७९३।। कथञ्चिच्च विचारैककोविदाः सौविदास्तदा । निश्चितं कश्चिदप्यत्र, प्रविवेशेति तेऽवदन् ॥७९४|| समाप्याखेटकं राज्ञे, सम्प्राप्ताय तदाऽथ ते । ऊचुर्निशान्ते कोऽप्यस्तीत्यच्छलादानपूर्वकम् ॥७९५॥ स्वयं सशब्दं पन्नद्वा, द्वयं हित्वाऽथ भूपतिः (?) । चौरादप्यधिकं मन्दमन्दमन्तःपुरेऽविशत् ॥७९६॥ तदा चतुरिकाद्वारदत्तदृष्टिर्महीपतिम् । दृष्ट्वाऽऽयान्तं द्रुतं तत्र, लीलावत्यै व्यजिज्ञपत् ॥७९७॥ स जालकपथेनाथ, लीलावत्या तयाऽपि च । क्षिप्तः पश्चात् प्रदेशस्थाशुचिकूपेऽपतत् कुधीः ॥७९८|| दौर्गन्ध्येनान्धलस्तत्र, प्राच्यभुक्तं स्मरन् सुखम् । दध्यौ भोक्ष्ये पुनर्भोगान्, निर्यातो नेदृशानहम् ||७९९॥ राज्ञी - दास्यौ च कूपेऽस्मिन् प्रेम्णा चिक्षिपतुः सदा । फेलां तयाऽभवत् तस्य, वृत्तिर्जीवनमात्रिका ॥८००॥ सोऽथ प्रावृषि कूपोर्ध्वगामिभिर्मलवारिभिः । प्रवाह्य बाह्यपरिखां, नीतो वप्रप्रणालकैः ॥८०१ ॥ क्षिप्तोऽथ परिखातीरे, लोलकल्लोललीलया । दैवादागतया प्राप्तो, धात्र्या देवतयेव सः ॥ ८०२॥ अथ सङ्गोप्य मूर्च्छान्ते, निजं नीतो निकेतनम् । अभ्यङ्ग-स्नान-भोज्याद्यैः, पाल्यमानोऽभवन्नवः ॥८०३॥
१. 'क्ष्ये कदा भोगा° वता० ॥ २ तदाऽभ वता० ॥
D:\maha-k.pm5 \ 2nd proof
[ २०१
5
10
15
20
25