________________
२००]
10
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् वशीकृताबलालोकं, पुष्पलेशलया दृशा । कथञ्चित् तं स्मराकारं, प्रीतये मम मेलय ॥७७८।। ज्ञात्वा कुतोऽपि तं साऽपि, समुद्रप्रियनन्दनम् । ललिताङ्गमुपेत्यैवं, व्याजहार चटूक्तिभिः ॥७७९।। त्वया लीलावतीदेव्याश्चौर ! जहे मनः किल । गताश्रयस्तु तां हन्ति, हन्त ! बाणैर्मनोभवः ॥७८०।। त्वद्वियोगेऽभवत् तस्याः, प्रावृट्कालस्तथाऽश्रुभिः । प्रयाणोन्मुखतां भेजे, यथा हंसोऽतिबाधितः ॥७८१।। अयं वियोगो दावाग्निर्न दीपकलिका पुनः । शान्ति याति न तन्मुग्ध !, किन्तु हन्तोपचीयते ॥७८२।। इत्थं भवद्वियोगोत्थसन्तापोपशमाशया । वीजयन्ती हसत्येषा, मामहो ! कदलीदलैः ॥७८३।। युग्मम् ॥ विशिष्टयोगतां यस्यास्त्वद्वियोग: किलाभजत् । भवन्मयमतः सर्वं, सा पश्यत्यवनीतलम् ॥७८४॥ स्वयं तत् त्वमुपागत्य, तापनिर्वापणं कुरु । युक्तं तु नायशस्तस्या, ग्रहीतुं तव सर्वथा ॥७८५।। अथोचे ललिताङ्गोऽपि, सङ्गोपितानिजाशयः । अयि ! क्वाहं वणिग्मात्रं ?, सा क्व वा राजवल्लभा ? ॥७८६।। प्रच्छन्नमपि कमैतत कर्तं किमिति शक्यते ? | सुप्तस्यापि हरेष्ट्रां, को वीक्षितुमपि क्षम: ? ॥७८७।। साऽप्यूचे न त्वया सौम्य !, चिन्ताऽर्थेऽस्मिन् विधीयताम् । अस्मिन् संयोजनोपाये, विधिमूर्तिमवेहि माम् ॥७८८॥ अथानुमतिमासाद्य, सद्यः सा तस्य दूतिका । विज्ञा विज्ञपयामास, राजीं गत्वा यथातथम् ॥७८९।। तद्योगकामा वामाक्षी, यावदस्त्यन्यदा मुदा ।
पुरे तावदभूत् तत्र, प्रमोदी कौमुदीमहः ॥७९०।। १. °म मील° पाता० ॥ २. पायवि° पाता० ॥
15
20
D:\maha-k.pm5\2nd proof