________________
अष्टमः सर्गः]
[१९९ स्कन्धदेशसमारूढप्रौढधम्मिल्लकैतवात् । मूर्तशृङ्गारभारस्य, नित्यं वाहीकतां गतम् ॥७६५।। पञ्चभिः कुलकम् ॥ दत्तदृष्टिमथैतस्मिन् , स्वस्य द्वैराज्यकारिणि । पञ्चेषुः पञ्चभिर्बाणैस्तां जघान घनस्तनीम् ॥७६६।। तामसौ कामसौन्दर्यजयशाली व्यलोकयत् । ललिताङ्गोऽपि तत्कालं, कौतुकोत्तानलोचनः ॥७६७।। कामस्य तां वशीकारमन्त्रसिद्धिमिवाङ्गिनीम् । वीक्ष्योन्मुखः कृतस्तम्भ, इति चिन्तितवानयम् ॥७६८॥ मखे वसति मन्येऽस्याः स्वयं मदनभपतिः । अन्यथा कथमत्रैव, स्फुरत्यविरतं रतिः ॥७६९।। विष-पीयूषयोरेषा, किमुपादानकारणम् ? । अस्याः कटाक्षा येनैते, सम्मोह-सुखयोः क्षमाः ॥७७०।। अस्याः काममभूत् कामः, स्वयं वेधा मृगीदृशः । क्व पुराणमनिस्त्वेतन्निर्मातं रूपमीश्वरः ? ||७७१।। शिरो विधुन्वन् कामेषूनितस्तत इव क्षिपन् । विचिन्त्येत्यचलद् गेहं, प्रति स श्रेष्ठिनन्दनः ॥७७२।। तस्मिन् दृष्टिपथातीते, सा महीपतिवल्लभा । अभूत् कामग्रहग्रस्ता, योगिनीवैकमानसा ॥७७३॥ प्रीतिर्न गीते नानन्दश्चन्दने न धृतिविधौ । आत्मनेव विना तेन, जज्ञे तस्यास्तनोरिव ॥७७४।। ज्ञात्वा विकारमाकार-चेष्टिताभ्यामथ स्वयम् । यथार्थनामा तामाह, चेटी चतुरिकाह्वया ॥७७५॥ सत्यं स्वामिनि ! किं नाम तं युवानं समीहसे ? । युक्तं वा यन्मृणालिन्या, रविरेव प्रियङ्करः ॥७७६।। अथ लीलावती प्राह, स्मरदाहातुराक्षरम् ।
हले ! चतुरिकैवासि, यदिदं कौशलं तव ॥७७७।। १. वाहैक खंता० ॥ २. कुतुकोत्ताललोचनः खंता० पाता० ॥
D:\maha-k.pm5\2nd proof