________________
5
10
15
20
25
१९६ ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् चिन्ताहेतुं दुहित्रा स, कुमार्या भाषितोऽब्रवीत् । साऽप्यूचे तात ! मा कार्षीश्चिन्तासन्तापितं मनः ॥७२७|| वारे तव मया तात !, कथनीया कथानिका । इत्युक्त्वा सा शुचिर्वेषं, वासोभिर्विशदैर्व्यधात् ॥७२८॥ गत्वा नृपान्तिकं दत्त्वा, जयेत्याशिषमाह सा । कथां शृणु यदि श्रीमन् ! कथाकौतुहली भवान् ॥७२९॥ दक्षो निःक्षोभतां वीक्ष्य, तादृक्षां क्षितिवल्लभः । मेने तद्वचनस्यैव, कथातः कौतुकं महत् ॥७३०॥ साऽप्याचख्यौ पुरेऽत्रैव, नागशर्माऽस्ति माणवः । सोमश्रियामभूत् पत्न्यां, नागश्रीस्तस्य नन्दनी ॥ ७३१|| कस्मैचिद् द्विजचट्टाय, दत्त्वा तां पितरौ स्वयम् । कार्येणौद्वाहिकेनैव, जग्मतुर्नगरान्तरम् ॥७३२॥ एकाकिन्यां गृहे तस्यां स चट्टः सायमागमत् । तया श्रियोऽनुसारेण, चक्रे भोज्यादिरौचिती ॥ ७३३|| सतूलीकं च पल्यङ्कं निजालयमहाधनम् । शयनायार्पयित्वाऽस्मै, चिन्तयामासुषीति सा || ७३४|| महीमहीनामहिभिर्जानेऽस्ति च न मञ्चकः । शयनं तत् क्व मे भूमौ वर्यं पर्यङ्कवर्जितम् ? ॥७३५॥ शये पर्यङ्कपर्यन्तेऽत्रैव तावन्निशामिमाम् । कोऽपि नो पश्यति ध्वान्तैर्यदन्धङ्करणौषधैः ॥७३६॥ इति सुष्वाप सा तत्र, निर्विकारैव बालिका । तदङ्गसङ्गे शृङ्गारसङ्कटे स द्विजऽपतत् ॥७३७॥ लज्जा-क्षोभादिसंरुद्धमनःशूलाकुलीकृतैः । प्राणैः स तत्यजे चट्टो, वचनीयभयादिव ॥ ७३८|| अचिन्तयत् ततः साऽपि पापिन्या धिगसौ मम । एकत्र स्वापपापद्रुरिहापि सफलोऽभवत् ॥७३९|| १. शुचिं वेषं, खंता० ॥ २. 'मासिवानिति खंता० पाता० ॥
D:\maha-k.pm5\ 2nd proof