________________
अष्टमः सर्गः]
[१९७
विभावरी विभात्येषा, यावत् तावदमुं द्विजम् । निक्षिपामि क्षितेरन्तर्यथा जानाति कोऽपि न ॥७४०॥ इत्यसौ खण्डशोऽकार्षीत् , तूर्णं तस्य कलेवरम् ।। न्यधान्निधानवद् गर्त, खनित्वा च स्वयं रयात् ॥७४१॥ गर्तं ततस्तमापूर्य, लिप्त्वाऽसौ गोमयद्रवैः । पुष्पैर्गन्धैश्च धूपैश्च, वासयामास तां रसां ॥७४२॥ पितरौ चागतौ तस्या, गृहीत्वौद्वाहिकं विधिम् । अतीतस्तु कथाकालः, श्रीमन्नुत्सूरतोऽमुना ॥७४३॥ कथं द्रक्ष्याम्यहं तामित्युक्ते राज्ञा जगाद सा । स्वामिन्नहं सा संसारनाटिकानटने नटी ।।७४४।। कुमारि ! तदिदं सत्यं, यदत्र कथितं त्वया ? । पृष्टेति सा पुनर्वाचमुवाच नृपति प्रति ॥७४५।। याः कथास्त्वं पुराऽश्रौषीस्तथ्यास्ता भूपते ! यथा । तथेयमपि तथ्याऽस्तु , चित्रहेत्वविशेषतः ॥७४६।। एवं विप्लावितः क्षमापस्तया नागश्रिया यथा । तथा त्वमपि किं नाथ !, विप्लावयसि कल्पितैः ? ॥७४७।। ६ कल्याणसलिलाधारकम्बुना जम्बुना ततः ।
समगद्यत सद्यस्कहारहूरानिभं वचः ॥७४८।। सन्तु दन्तुरितानन्दाः, कथास्तन्वि ! तथाविधाः ।
असावस्तु विचारस्तु , प्रमाणं यस्त्वया कृतः ॥७४९॥ [ललिताङ्गाख्यानकम् ]
तथाहि गाहितस्वर्गनगरीवैभवं भुवि । पुरं कन्दर्पकोशाख्यमस्ति कन्दर्पदर्पभूः ॥७५०।। धराधौरेयतां भेजे, राजा तत्र शतायुधः ।
पञ्चेषु तृणवन्मेने, यं विलोक्य त्रिलोक्यपि ॥७५१॥ १. “हेतुर्विशे° खंता० ॥
15
25
D:\maha-k.pm5\2nd proof