________________
अष्टमः सर्गः]
[१९५
10
दृष्टान्तोपनयश्चायं, योऽत्र भूपः प्रकीर्तितः । स कर्मपरिणामोऽस्य, सोऽयं जीवः पुरोहितः ॥७१५॥ सहजं मित्रमेतस्य, शरीरं परिभाव्यताम् । तत् कर्मनृपतेः कोपे, जीवेन सह न व्रजेत् ॥७१६॥ ज्ञातिप्रभृतयः सर्वे, पर्वमित्रस्य सन्निभाः । श्मशानस्थानपर्यन्तमनुयान्तीह देहिनम् ॥७१७॥ प्रणाममित्रतुल्यस्तु , धर्मोऽयमवगम्यताम् । जन्मान्तरेऽपि यो जीवं, गच्छन्तमनुगच्छति ॥७१८॥ जीवस्य यः परत्रापि, श्रियं यच्छति वाच्छिताम् ।
ज्ञाति-देही विहायाहं, तत् तमाराद्भुमुद्यतः ॥७१९॥ ६६ अथ मन्मथवीरस्य, मूर्तयेव जयश्रिया ।
जयश्रिया प्रभुः प्रोचे, शौचेनाञ्चितमानसः ॥७२०॥ इत्थं मोहयतो नाथ !, नागश्रीवत् तवानृतैः ।
नागः श्रीमान् ! किमत्युग्रं, मानसं साधु बाधते ? ॥७२१।। [नाग,याख्यानकम्]
नगरे नगरे कारकारप्राकारचारुणि । रमणीयाभिधे राजा, जज्ञे किल कथाप्रियः ॥७२२।। अचीकथत् कथाः पौरान् , वारंवारेण सोऽन्वहम् । स च कस्यचिदन्येधुर्वारकोऽभूद् द्विजन्मनः ।।७२३।। दुष्कर्मजन्मनां मौर्य-दारिय-व्यसना-ऽऽपदाम् । क्रमागत इवाऽऽवासः, स द्विजोऽचिन्तयत् तदा ॥७२४।। रसना रसनायैव, मम धिग् ! वेधसा कृता । आयसीव कुशी स्तब्धा, स्वनामग्रहणेऽपि या ॥७२५॥ ब्रुवे यदि न जानेऽहमिति तद् दुष्टभूपतिः । प्रवेशयति कारायां, दुर्गाहग्रहिलो हि माम् ॥७२६।।
15
25
१. रकरिप्रा खंता० ।।
D:\maha-k.pm5\2nd proof