________________
१९४]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् न मे कुत्रापि कोऽप्यस्ति, किमभ्रात् पतितोऽस्म्यहम् ? । आसीन्मम ययोरास्था, तयोश्चर्येयमीदृशी ॥७०२।। अहो ! मे निविवेकत्वं, यन्नीतौ मित्रतामिमौ । यौ मयि क्षीणदाक्षिण्यावित्थं दुर्व्यसनातुरे ॥७०३।। तृतीयस्यापि पश्यामि, सुहृदः सौहृदक्रमम् । पश्चान्न हि मनो येन, क्षिणोति तदवीक्षणम् ॥७०४।। इति निश्चित्य चित्तेन, तदगारमगादसौ । सच्चक्रशक्रः सच्चक्रे, सोऽप्यमुं गृहमागतम् ॥७०५।। अब्रवीच्च कथं द:स्था. तवावस्थेयमीदृशी ? । मन्दमन्दमिदानीं च, किमागमनकारणम् ? ॥७०६।। अथास्य कथयामास, विप्रो वृत्तान्तमात्मनः । मित्रद्वयविमुक्तस्य, परित्राणाथितां च ताम् ॥७०७।। परं पुरा मया किञ्चिन्न तवोपकृतं तथा । इत्यात्मनश्च न्यूनत्वं, मन्दागमनकारणम् ।।७०८।। सोऽप्यवोचत मित्राहं, समीहे न हि किञ्चन । सद्भूतभक्तिग्राह्योऽस्मि, तत्राभून्न्यूनता न ते ॥७०९।। तद्भद्र ! मास्म कार्षीस्त्वं, शङ्कातङ्कातुरं मनः । परित्रातरि मित्रेऽस्मिन् , कुतस्त्यं भुभुजो भयम् ? ॥७१०।। इत्थं वाक्सधया दत्त्वा. स्वस्ति सौवस्तिकं प्रति स गुणी प्रगुणीचक्रे, रथं जवनवाजिनम् ॥७११॥ दोःस्तम्भे बिभ्रता तेन, मित्रेणासदृशं बलम् । शम्बलं च रथे तस्मिन्नारोप्यत पुरोहितः ॥७१२।। राज्यान्तरमथो नीत्वा, समुपस्थाय पार्थिवम् । तेनासौ लम्भितः कीर्तेरास्पदं सुखसम्पदाम् ॥७१३।। त्रयाणामपि मित्राणां, स स्वभावं विभावयन् ।
प्रणाममित्रमद्राक्षीत् , प्राणेभ्योऽप्यतिवल्लभम् ॥७१४।। १. °म्पदः खंता०॥
20
25
D:\maha-k.pm5\2nd proof