________________
अष्टमः सर्गः]
[१९३ तदनुद्घाटितद्वारं, बहि: स्थित्वा कृतारवः । स भृङ्ग इव तन्मित्रसद्म पद्ममिवामुचत् ॥६८९।। पुरोधाः पर्वमित्रस्य, ततो धाम जगाम सः । विकस्वरमुखं शैलनिकुञ्जमिव कुञ्जर ॥६९०।। अभ्युत्थानमथाऽऽधत्त, तस्यायं सम्मदी सुहृत् । आयातायात मद्रोहमद्य पूतमिति ब्रुवन् ॥६९१।। पुरोहितोऽथ पर्यङ्के, तन्निर्दिष्टे निविष्टवान् । पुरःस्थं तं प्रति प्राह, प्रौढप्रीतिधुरन्धरः ॥६९२।। क्रुद्धः कृतान्तरूपोऽयं, भूपो मां प्रति सम्प्रति । यदि नश्यामि नेदानी, तन्मां निर्दलयत्ययम् ॥६९३।। तदशेषं विहाय त्वं, सहायत्वं मम व्रज । गमिष्यामि विदेशेऽपि, प्राणत्राणपरोऽधुना ॥६९४।। निशम्येदं तदा पर्वमित्रेणोक्तं त्रुटन्मुदा । यदि ते मम देहेन, गेहेन विभवेन च ॥६९५।। भवेदत्र परित्राणं, ददामि तदिदं मुदा । परं राजविरुद्धेऽर्थे, किं कुर्वेऽहं कुटुम्बवान् ? ॥६९६।। युग्मम् ॥ ततः सत्यतया मित्रं, यदि त्वमसि तत् प्रभो ! । कथमप्यन्यथाकारमितो देशान्तरं कुरु ॥६९७॥ अन्यथा मद्गृहे स्वामिन् !, यदि त्वामागतं नृपः । प्रातस्यिति तद् यन्त्रे, मत्कुलं पीलयिष्यति ॥६९८।। इक्युक्ते तेन तद् गच्छन् , नरेश्वरपुरोहितः । अन्ववर्ति स्वयं किञ्चिद् , दाक्षिण्यादा गृहाङ्गणम् ॥६९९।। तद्गृहान्निःसृतो गच्छन्नचिन्तयदयं स्वयम् । अहो ! मे मन्दभाग्यस्य, न किञ्चित् त्राणकारणम् ॥७००।। तावेवैतौ स एवाहं, जातौ किमधुनेदृशौ ? ।
25 आः ! ज्ञातमथवा नास्ति, प्रसादो जगतीभुजः ॥७०१॥ १. भूपः सम्प्रति मां प्रति खंता० ॥ २. प्रतिज्ञास्यति खंता० ॥
D:\maha-k.pm5\2nd proof