________________
१९२]
10
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् मा साहसमिदं कार्षी वन्निति मुहुर्मुहुः । मासाहसमिति ख्याति, तत् प्राप स विहङ्गमः ॥६७७॥ वार्यमाणोऽपि तेनायं, पुरुषेण पुनः पुनः । मांसलोभाभिभूतत्वात् , तत्याज न हि साहसम् ॥६७८।। सिंहेनाथ प्रबुद्धेन, प्रविशन् स मुखान्तरे । उच्चैश्चपेटापातेन, हतो हस्तिविघातिना ॥६७९।। भार्याविर्वार्यमाणोऽपि, स इव त्वमपि स्फुटम् ।
पश्चात्तापास्पदं भावी, तदिदं मा कृथा वृथा ॥६८०।। $$ अथ जम्बूर्वचः प्राह, शुचि प्राहतकल्मषम् ।
अशर्मभाजनं सोमशर्मैव न भवाम्यहम् ॥६८१।। [सहजमित्रादिमित्रत्रितयसङ्गतं सोमशर्माख्यानकम् ]
पत्तनं पाटलीपुत्रमित्यस्ति क्षितिमण्डनम् । शौर्यवज्रायुधस्तत्र, राजा वज्रायुधोऽभवत् ॥६८२॥ आसीत् पुरोहितस्तस्य, राज्यव्यापारभारभृत् । प्रख्यातः सोमशर्मेति, शर्मश्रीकेलिमन्दिरम् ।।६८३।। एक: सखा सुखाधारः, सहमित्राभिधोऽन्वहम् । बद्धः प्रेमगुणेनेव, तेन सञ्चरते सह ॥६८४।। पर्वण्येव सखाऽभ्येति, पर्वमित्राभिधोऽपरः । तं प्रति श्रीनिधिं प्रातः, सरोजमिव षट्पदः ॥६८५।। प्रणाममित्रनामाऽन्यः, सखा तेन कदाचन । आपतन् प्रतिपच्चन्द्र, इवाग्रे नम्यते ततः ॥६८६।। अन्वहं सहितस्तेन, सहमित्रेण स स्फुरन् । पुर्याः पुरोहितस्तस्याश्चक्षुःश्रियमशिश्रियत् ॥६८७।। कथञ्चित् कुपितं भूपं, सम्यग् विज्ञाय सोऽन्यदा । सदनं सहमित्रस्य, ययौ निशि पुरोहितः ॥६८८।।
25
१. स इति खंता० पाता० ॥
D:\maha-k.pm5\2nd proof