________________
10
अष्टमः सर्गः]
[१९१ भूरिशेवालजालेन, तत्र च्छन्नमुखाम्भसि । कूपेऽन्तः कोटिशोऽभूवन् , जीवाः क्षीबा जलोद्भवाः ॥६६५।। कदाचिद् वातसञ्जातशैवलच्छिद्रवर्त्मना । कूर्मः कूपगतः कश्चिदिन्दुं शारदमैक्षत ॥६६६।। स्वकीयजन्मसाफल्यश्रियो मुखमिवामलम् । विलोक्य कूर्मस्तं पर्वशर्वरीशममोदत ॥६६७।। आलोकयतु मे लोकः, सर्वस्तदिदमद्भुतम् । इति वात्सल्यतोऽगच्छत् , कच्छपः पयसस्तलम् ॥६६८।। कूर्मः समानयद् यावत् , कुलं तद्दर्शनाकुलम् । तावत् तच्छिद्रमाच्छादि, पुनः सेवालजालकैः ॥६६९।। भ्रामं भ्रामं जले चक्षुश्चिक्षेपोर्ध्वं स कच्छपः । शेवालजटिले तत्र, न तु पूर्णेन्दुमैक्षत ॥६७०।। तदेनं प्राप्य सूरीन्दुं , कूर्मवन्न त्यजाम्यहम् ।
कुतोऽस्य दर्शनं भूयो, मोहच्छन्ने भवावटे ? ॥६७१।। ६६ अथो कनकवत्याहं जितवाक्पतिमतिं पतिम् ।।
प्रति प्रतिकृतिर्मा भूस्त्वं मासाहसपक्षिणः ॥६७२।। [मासाहसपक्षिण आख्यानकम् ]
अटवी विद्यते काऽपि, व्योमव्यापिमहीधरा । शिबिरस्थितिवन्मृत्योः, क्रूरसत्त्वौघभीषणा ॥६७३।। इन्धनार्थमथान्येद्युः, समं सार्थेन केनचित् । अटव्यां कोऽप्यगात् तस्यां, प्रान्ते कस्यापि भूभृतः ॥६७४।। सुप्तं मृगेन्द्रमद्राक्षीत् , स तत्रोत्कटदंष्ट्रकम् । ग्रासभग्नविलग्नेन्दुकलं कालमिवाङ्गिनम् ॥६७५।। कृतीन्तस्येव सिंहस्य, मुखे तस्य विदारिते ।
दन्ताग्रलग्नमांसांशलोभात् कोऽप्यविशत् खगः ॥६७६।। १.ह, मत्या हसितवाक्पतिम्।पतिं प्रति कृतिन्!मा भूस्त्वंमासाहसपक्षिवत् ॥६७२॥ इतिरूपः पाठः खंता० पाता० ॥ २. गर्जद्वनगजध्वाननृत्यत्केकिकुटुम्बका ॥ इति पाता० पाठः ।।
20
25
D:\maha-k.pm5\2nd proof