________________
१९०]
10
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् स तमाराधयामास, यक्षमक्षोभमानसः । आत्माहृतैर्जलैः पुष्पैः, फलैश्चाद्भुतभक्तिभाक् ॥६५३।। अथ तुष्टोऽवदद् यक्षः, पुण्यहीनं प्रति द्रुतम् । मम हेममयः केकी, पुरो नर्तितुमेष्यति ॥६५४॥ पिच्छं गच्छन्नसावेकं, केकी यन्मुञ्चति स्वयम् । ग्राह्यं तद् भवता नित्यं, चामीकरमयं रयात् ॥६५५।। यक्षस्येति वचः श्रुत्वा, प्रीतस्तत्र स तस्थिवान् । प्रनृत्य गच्छतो हैमं, पिच्छं गृह्णाति केकिनः ॥६५६।। एकदा तेन मूर्खेण, गच्छन् हैमः शिखी धृतः । एककालमशेषाणि, पिच्छान्यादातुमिच्छता ॥६५७।। तत्पाणिस्पर्शमात्रेण, केकी काकीबभूव सः । पिच्छान्यग्रे गृहीतानि, काकपिच्छानि चाभवन् ॥६५८।। आत्मानमथ निर्भाग्यमन्वशोचदसौ तदा । तुल्यकालं ददद् दृग्भ्यां, जलं लक्ष्म्यै सुखाय च ॥६५९।। ततः स इव मूर्खत्वं, वृथा त्वमपि मा कृथाः । आश्रमादिक्रमज्ञोऽपि, किमज्ञ इव वर्तसे ? ॥६६०॥ तारुण्येऽपि व्रतग्राही, कदाऽपि विकृताशयः ।
पूर्वोपार्जितपुण्यानामपि नाशाय जायसे ॥६६१॥ ६ अथावादि सुधावादि, वचस्तां प्रति जम्बुना ।
न भवामि मनस्तापैकमठ: कमठो यथा ॥६६२।। [कूर्माख्यानकम्]
भूधरो विन्ध्यनामाऽस्ति, यत्र स्पर्धात् परस्परम् । वियदुर्वीजुषः कुर्युगजि पर्जन्यदन्तिनः ॥६६३।। अभूत् कादम्बिनी तस्य, कामिनीवाटवी तटे ।
गम्भीरोऽस्यां बभौ नाभीरूप: कूपश्च कश्चन ॥६६४॥ १. यत्र कुञ्जरगर्जया । प्रावृषीव सदाऽम्भोदभ्रान्त्या नृत्यन्ति केकिनः ॥६६३॥
15
20
25
पाता०॥
D:\maha-k.pm5\2nd proof