________________
अष्टमः सर्गः]
[१८९
जातमात्रे पुनस्तत्र, प्रदोषे तमसां पदे । गृहस्य गगनस्येव, क्षीणो भास्वद्वसुव्रजः ॥६४०॥ जातेऽष्टवर्षमात्रेऽस्मिन् , माता मृत्युमवाप सा । पुण्यहीन इति ख्याति, तल्लोके गतवानयम् ॥६४१॥ तदन्यसद्मसु स्वैरं, कर्म निर्माय जीवति । मत्वेति स गृहे निन्ये, मातुलेनातुलेच्छया ॥६४२।। मातुलस्य गृहं तस्मिन् , गते कतिपयैदिनैः । मुष्टं चौरैर्निशाखातभित्तिकृष्टधनोच्चयैः ॥६४३।। अथ तं प्रथते लोको, निर्भाग्यैकशिरोमणिम् । तन्निर्वेदनिधिः सोऽपि, ययौ देशान्तरं प्रति ॥६४४।। असौ पुरि तमालिन्यां, मालिन्याङ्गीकृतस्ततः । सिषेवे वणिजां नाथं, विनयी विनयन्धरम् ॥६४५॥ गतेऽस्मिन् दिवसैः कैश्चित् , शिखिदग्धालयो वणिक् । स जनैः पुण्यवान् मेने, जीवन्निःसृतमानुषः ॥६४६।। तत् खिन्नः पुण्यहीनोऽयं, बोहित्थमधिरूढवान् । धनावहेन वणिजा, मणिजालजुषा समम् ॥६४७।। प्रवीर इव बोहित्थः, प्रत्यर्थिपृतना इव । वीचीविदारयन्नब्धेः, परं पारं स यातवान् ॥६४८।। अथोपाय॑ धनं भूरि, वलितोऽसौ धनावहः । सहैव पुण्यहीनेन, धनोपार्जनशालिना ॥६४९।। अमज्जत् तज्जले सिन्धोरन्तः प्रवहणं ततः । तत्रापि फलकं प्राप्य, पुण्यहीनस्तु निर्ययौ ॥६५०॥ पुण्यहीनोऽम्बुधिं तीा, संसारं शमवानिव । अवापदटवीं काञ्चित् , कस्तूरीपत्रवद् भुवः ॥६५१।। अथो चरन्नरण्यान्तः, स ददर्श मुदाऽऽस्पदम् । विस्मितो वेश्म यक्षस्य, वनीधम्मिल्लसन्निभम् ॥६५२॥
D:\maha-k.pm5\2nd proof