________________
अष्टमः सर्गः]
[१८१ अथ ग्रामस्य कामं स, पूरयन् भूरिगोधनैः । दत्तैस्तदा यथा दुःस्थं, ययौ धनदयक्षताम् ॥५४३।। अन्यदाऽपि निशीथिन्या, निशीथे गोधनाशया । क्षेत्रमालाधिरूढोऽसौ, शङ्ख धमति धैर्यवान् ॥५४४॥ त एव तस्करास्तत्र, निशीथेऽन्येधुराययुः । हृताद्भुतधना धैर्यजितकीनाशकिङ्कराः ॥५४५।। दध्मौ शङ्ख क्षणेऽमुष्मिन् , सोऽपि क्षेत्रस्य रक्षकः । आह्वातुमिव दुर्बुद्धिर्दूरादापदमात्मनः ॥५४६।। आकर्ण्य ते तदा कम्बोः, शब्दमब्दविजित्वरम् । किमेतदिति संरब्धाश्चौराश्चिरमचिन्तयन् ॥५४७॥ अत्रैव शङ्खशब्दोऽभूत् , पुराऽपि प्रापितज्वरः । भयादकस्मादस्माकमाकस्मिकविकस्वरः ॥५४८।। नरः शङ्केऽस्ति केदाररक्षकः शङ्खवादकः । भ्रमिताः स्मः पुरा स्पष्टं, कष्टं तेन दुरात्मना ॥५४९।। इति निश्चित्य ते चौराः, शङ्खस्वनमनूद्यताः । स शङ्खधमको यत्र, तत्र क्षेत्रान्तरे ययुः ।।५५०।। मुष्टिभिस्ताडयित्वा तं, भक्त्वा शङ्ख च सक्रुधः । हृत्वा च तद्धनं मछु , चौरास्ते जग्मुरुन्मुदः ॥५५१।। प्रभूते सति वित्तेऽस्मिन्नधिकाधिकवाञ्छया ।
स इव त्वं विदग्धोऽपि, भव मा पदमापदाम् ॥५५२॥ F8 अथ जम्बूः स तामाह, सतामाहतविप्लवः ।
स्यामहं किमु ? मूर्खत्वान्मुमूर्षुः स कपिर्यथा ॥५५३।। [वानराख्यानकम्]
अस्ति हस्तिकुलोत्खातै, रत्नै रेवाम्बुवाहितैः ।
रत्नाकरीकृताम्भोधिविन्ध्यो नाम धराधरः ॥५५४।। १. सोऽपूरयद् भू खंतासं० ॥ २. °थाऽतुच्छं, ययौ पाता० ॥ ३. °न्यां, नि वता० ॥ ४. पदः खंता० पाता० ॥
25
D:\maha-k.pm5\2nd proof