________________
१८२]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अनेकमुनिमाहात्म्याददाहात्मकतां गतः । तद्वनान्तर्दव इवाभवत् कोऽपि कपीश्वरः ॥५५५॥ उद्भूतरुचिसम्भारास्तारा इव निशाकरः । कामं कामयते सर्वाः, स एकः कपिकामिनीः ॥५५६।। कपिः कोऽप्यंसलम्मन्यः, कदाचिन्मदनातुरः । वञ्चयित्वाऽधिपं रेमे, तत्प्रियाभिर्भयोज्झितः ॥५५७।। तं युवानं बलिष्ठं च, वीक्ष्य शाखामृगस्त्रियः । जरत्कपिरतोद्विग्ना, दधुर्मुदमुदित्वरीम् ॥५५८।। सममेष परीरम्भसम्भ्रमेण कपिस्त्रियः । काम-कोपवशात् कम्पसम्पदां पदमादधौ ॥५५९।। स ताश्च नख-दन्तादिमृदुकण्डूयनादिकम् । रचयामासुरन्योन्यं, रहो गलितचेतनम् ॥५६०॥ अथ यूथपतिर्दूरादेतदालोक्य दुःसहम् । अधावत् तारबूत्कारं, लहरीजित्वरत्वरः ॥५६१।। युवा कपिरपि प्रेक्ष्य, तं समायान्तमभ्यगात् । जवाज्जितं तु चेतोऽपि, मुक्त्वा स्त्रीमध्य एव सः ॥५६२।। गृहीतगृहिणीकोपसाटोपहृदयं तदा । स तं वालीव सुग्रीवमुग्रक्रोधमयोधयत् ॥५६३॥ परस्परपरिक्षिप्तप्रतीष्टग्रावलोष्ठकैः । तौ घ्नन्तौ वनदेवीनामाश्चर्यं चक्रतुश्चिरम् ॥५६४|| अथ कच्छाभपुच्छौ तौ, क्षुरीकाराविव क्षणात् । ऊद्ध्वौ पाश्चात्यपादाभ्यामङ्ग विविशतुमिथः ॥५६५।। जवेनाथ जरन् दूरागतिखिन्नः कपीश्वरः ।। यना स्त्रीदृष्टिपष्टेन, निर्भग्नस्त्रासमासदत ॥५६६।।
20
१. अशेषमुनि वता० ॥२. वाऽभूत् कोऽपि कपियूथपः इत्येवंरूपः पाठः खंता० पाता० ॥ ३. तभूरिसञ्चारा' खंता० ॥ ४. रपूत्कारलह पाता० ॥ ५. वगोलकैः खंता० पाता० ॥
D:\maha-k.pm5\2nd proof