________________
१८०]
10
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अथाधोमुख एवेदं, विद्युन्माली जगाद तम् । बन्धो ! विद्याऽमुनाऽब्देन, साध्या शोध्योऽस्म्यहं पुनः ॥५३०॥ निशम्येति गतः सोऽपि, यावद् वर्षत्रयं पुनः । एहिरेयाहिरां चक्रे, मग्नो मोहे तु सोऽधमः ॥५३१।। दुःखदावाग्निदाहाय, नाहं मोहाटवीतरुः । तन्वि ! तद्वद् भविष्यामि, स्त्रीलताजालवेष्टितः ॥५३२॥ गिरं कनकसेनाऽथ, सुधामाथभवामिव । अभ्यधाद्धारिणीपुत्रं, प्रति प्रतिकृती रतेः ॥५३३।। शास्त्रव्यापारपारीणो, धुरीणो बुद्धिशालिनाम् ।
एष्यस्यनुशयं नाथ !, त्वं शङ्खधमको यथा ॥५३४॥ [शङ्खधमकाख्यानकम्]
शालिग्राम इति ग्रामः, ख्यातः क्ष्मातलभूषणम् । लोलश्रीकेलिशैलाभकणकूटोऽस्ति विस्तृतः ॥५३५।। कौटुम्बिकस्य कस्यापि, तत्रैकः क्षेत्ररक्षकः । प्रेष्योऽजनि ध्वनत्कम्बुनादत्रासितभक्षकः ॥५३६।। एकदाऽयमुपादाय, पाणौ शङ्ख निशामुखे । दूरे जगाम ग्रामस्य, क्षेत्ररक्षणदक्षिणः ॥५३७।। निशीथसमये हृत्वा, कुतोऽप्यतिघनं धनम् । तत्क्षेत्रस्य समीपेन, चौराः केचित् तदाऽचलन् ॥५३८॥ तेन तत्रान्तरे क्षेत्रान्तरे मालाग्रवर्तिना । कम्बुरम्बुधरध्वानवाद्यऽवाद्यत हेलया ५३९।। तदाकर्ण्य तदा कम्बुशब्दितं ते मलिम्लुचाः । त्यक्त्वाऽऽशु गोधनं नेशुः, प्राप्तारक्षकशङ्कया ॥५४०॥ तत् तस्य गोधनप्राप्तिपुण्याकर्षणमन्त्रताम् । ततान कम्बुनिःस्वानगौरवं चौरवञ्चकम् ॥५४१।। विभातायां विभावाँ, चर्यां कुर्वन् स गोधनम् । वीक्ष्य नि:शेषमादाय, दातुं ग्रामाय चागमत् ॥५४२॥
20
25
D:\maha-k.pm5\2nd proof