________________
[१७९
5
10
अष्टमः सर्गः]
तदावाभ्यामिहागत्य, यूयमेव निषेविताः । विना सत्प्रभुसेवाभिः, क्व पूर्यन्ते मनोरथाः ? ॥५१७।। इति श्रुत्वा तयोर्वाचं, तदा चण्डालशेखराः । ते बभूवुर्मुदाऽऽमोदमन्दिरं मेदुरप्रभाः ॥५१८॥ तदाऽऽनन्दमयैरेभिस्तावेतौ परिणायितौ । स्वाजन्याय स्वपुत्रीभ्यां, लताभ्यामिव भूरुहौ ॥५१९॥ ब्रह्मचर्येण रोचिष्णुरथ मेघरथः कृती । वसँस्तत्रैव वर्षेण, तां विद्यां वशमानयत् ॥५२०॥ विद्युन्माली तु चाण्डाली, तामकामयताधमः । साऽपि गर्भं दधौ तस्य, स्थिरीकरणकार्मणम् ॥५२१॥ असिद्धमथ सिद्धस्तमाह मेघरथस्तदा । किमकारि त्वया मूढ !, मग्नोऽसि म्लेच्छवारिधौ ॥५२२॥ इत्याकर्ण्य त्रपानम्रो, विद्युन्माली जगाद तम् । एकवारं सदाचार ! ?, क्षम्यतां विप्लवो मम ॥५२३।। इदानीं साधयिष्यामि, विद्यां निर्जितमन्मथः । वाच्यः प्रीतिप्रकर्षेण, वर्षेणाहं त्वया पुनः ॥५२४॥ एवमस्तु गदित्वेति, स्फुरद्विद्यापदच्छदः । धीमान् पक्षीव वृक्षाग्रमारुरोह नभस्तलम् ।।५२५।। समयान्ते समायातः समया तं पुनः कृती । बन्धुप्रेमगुणाकृष्टो, म्लेच्छं विद्याधरोऽपि सः ॥५२६।। अग्रे तावदसौ विद्युन्माली बालं करे धरन् । पुनर्गर्भितचण्डालीशाली तेन विलोकितः ॥५२७।। सोऽपि मेघरथं वीक्ष्य, त्रपयाऽभूदधोमुखः । रसातलप्रवेशाय, द्रष्टुं रन्ध्रमिवावनौ ॥५२८॥ उक्तो मेघरथेनाथ, बन्धो ! बन्धोऽयमेतया ।
कुतः शटितया रज्ज्वा, गजस्येवाभवत् तव ? ॥५२९।। १. तेनावलो° खंता० ॥
20
25
D:\maha-k.pm5\2nd proof