________________
5
10
151
20
25
१७८]
इत्यसौ बोधिता तेन, रविणेव सरोजिनी ।
2
दधौ हृदि तदा साधुधर्मं हंसमिवोज्ज्वलम् ||५०५ ।। तत् त्वं साकम्बुकण्ठीव, स जम्बुक इवापि च । मा स्म भूरुभयभ्रष्टो, मुक्त्यर्थं मुक्तवैभवः ||५०६ ॥
SS अथ श्रीजम्बूरूचे तां, स्त्रीचेतांसि प्रबोधयन् । विद्युन्मालीव नैवाहं, मोहे मज्जामि कामिनि ! ||५०७|| [विद्युन्माल्याख्यानकम् ]
अस्ति सन्ततसञ्चारिताराविश्रामभूमिका ।
नभः स्तम्बेरमस्तम्भो, वैताढ्य इति भूधरः ॥५०८|| तस्यावनिस्तनस्येव, मूर्ध्नि काश्मीरपत्रवत् । पुरमस्ति मणिस्तोममयं गगनवल्लभम् ॥५०९॥ तत्र विद्याधरौ विद्युन्मालि- मेघरथाविति । वैताढ्य श्रीमुखस्यास्य, नगरस्य दृशाविव ॥ ५१०॥ अथ साधयितुं विद्यां, मातङ्गीसंज्ञया श्रुताम् । मन्त्रयामासतुर्विद्याधरौ प्रीतिधुरन्धरौ ॥५११ ॥ चण्डालकन्यामुद्वाह्य, तद्गृहे विहितास्तपदैः । विद्या वर्षावधि ब्रह्मचर्यादेषा तु साध्यते ॥५१२॥ भूखण्डमण्डने गत्वा, साधयावः क्वचित् पुरे । तदेतामिति निश्चित्य, तौ वसन्तपुरं गतौ ॥५१३॥ स्थित्वा चण्डालवेषेण, तत्र चण्डालपाटके । एतौ चण्डालमुख्यानां, चक्रतुः सेवनक्रियाम् ॥५१४॥ ततस्तैः सेवया प्रीतै, रतौ सम्भाषितौ मिथः ।
किमङ्गजौ ? कुतः प्राप्तौ ?, किमारम्भौ युवामिति ? ॥५१५ ॥ तावूचतुरिति म्लेच्छराजपुत्राविहागतौ । साकेतपुरवास्तव्यावावां पित्रा निराकृतौ ॥५१६॥
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम्
१. °दि सदा साधु° पाता० ॥ २. ततस्तौ सेवया प्रीतौ, रतौ वता० ॥ ३ °ङ्गतौ ?
कुतः वता० ॥
D:\maha-k.pm5 \ 2nd proof