________________
अष्टमः सर्गः ]
भ्रष्टं जाराच्च चौराच्च, किं नात्मानं हसस्यहो ! ? | मूढो ह्यद्रौ ज्वलत् पश्येन्न पुनः पादयोरधः ||४९२॥ जल्पाके जम्बुके तस्मिन्निति वृत्तं नृभाषया । चिन्तयामास सा यावदाविष्कृतचमत्कृतिः ॥४९३॥ स दिव्यपुरुषो भूत्वा, भूरिभूषणभूषितः । जगाद जम्बुको वाचं, भूयस्तां तावदुच्चकैः ॥४९४॥ युग्मम् ॥ निजं जानीहि मां पूर्णहिमांशुमुखि ! कामुकम् । अहं स हंसगमने!, शिखारत्नं निषादिनाम् ||४९५|| त्वामादाय गते चौरे, चौरबुद्ध्याऽथ रक्षकैः । अहं दुःखलतामूलशूलायामधिरोपितः ॥४९६॥ जिनदासं तदाऽऽसन्नचरं वीक्ष्य वणिग्वरम् । आर्तोऽयाचं पयः पातुं पयोदमिव चातकः ॥४९७|| नमोऽर्हद्भ्य इति न्यस्य, मन्त्रं मयि तदाऽऽतुरे । पानीयाय जगामाऽयमन्तर्ग्रामं वणिग्वरः ॥४९८॥
>
अथ शूलास्थितस्तेन, मन्त्रेण मुखरस्तदा । जातोऽहं केतकीपत्रप्राग्रजाग्रद्विरेफवत् ॥४९९॥ आरक्षानुज्ञया श्रेष्ठी, पयः पाययितुं मया । दृष्टो हृष्टेन मातेव, वेगादागामुकस्तदा ॥५००|| अपीतेनापि तृप्तोऽहं, पयसा दृक्पथस्पृशा । स्मरन्नतितरां मन्त्रं, प्राणैर्मुक्तोऽस्ति तत्क्षणात् ॥ ५०१॥ तन्मन्त्रध्यानमाहात्म्याद्, भूत्वाऽहं ज्ञानवान् सुरः । तव मोहव्यपोहाय, व्यधां फेरुण्डताण्डवम् ॥५०२॥ जैनं भज ततो धर्मममुं त्वमपि भामिनि ! । नैव स्वर्गा - ऽपवर्गश्रीर्यत्प्रसादाद् दुरासदा ||५०३॥ चन्द्रचारूणि चीराणि, परिधाप्य प्रबोध्य ताम् । अथायमानयत् क्वापि, पत्तने व्रतिनीमठे ॥ ५०४ ॥
D:\maha-k.pm5 \ 2nd proof
[ १७७
5
10
15
20
25