________________
5
10
151
20
25
१७६]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् चौरोऽथ चिन्तयाञ्चक्रे, न या निजविभोरभूत् । भविष्यति कुतः सा मे, कामेषुविवशीकृता ? ॥४७९॥ अस्याः सर्वस्वमादाय, मायया तद् व्रजाम्यहम् । मनोरथं मदीयं हि, नदीयं पूरयिष्यति ॥४८०॥ इति निश्चित्य तामूचे, चौरश्चपललोचनाम् । दुस्तरा सिन्धुरेषाऽस्ति, गतिनिर्जितसिन्धुरे ! ॥४८१॥ एककालं न भवर्ती, वसना - ऽऽभरणादि च । उत्तारयितुमीशोऽहं, तत् पूर्वं सर्वमर्पय ॥४८२॥ ततस्तीरे विमुच्यैतत् सर्वं सर्वाङ्गसुन्दरि ! | भवतीं पुनरानेतुमहमेष्यामि सत्वम् ॥४८३॥ साऽपि तद्वचसा प्रीता, वसना - ऽऽभरणादिकम् । तस्याऽर्पयित्वा चौरस्य, शरस्तम्बान्तरे स्थिता ||४८४ ॥ स्वभावनिस्त्रपां दौष्ट्यनिस्त्रपस्तां विलोकयन् । दायादवत् तदादाय, स विवेशाऽऽपगापयः ॥४८५॥ स्वपतित्यागिनीं न त्वां स्वप्नेऽपि स्पृहयाम्यहम् । तामित्युक्त्वा नदीं तीर्त्वा, तस्करः स तिरोदधे ॥४८६॥ साऽपि किं करवाणीति, वाणिनी मूढमानसा । एकं जम्बुकमद्राक्षीन्मांसखण्डजुषं मुखे ||४८७|| जिघृक्षुः स तिमिं सिन्धोरम्बुकच्छेऽथ जम्बुकः । मांसखण्डं पुरो मुक्त्वाऽधावद् यावदयं रयात् ॥४८८॥ तावदम्बुनिमग्नेऽस्मिन् मत्स्ये विवलितस्तदा । चक्रन्द जम्बुको दुःखी, शकुन्या पिशिते हृते ||४८९॥ युग्मम् ॥ तं तथास्थिमालोक्य, गतदुःखेव साऽहसत् । प्रौढान्यपि हि दुःखानि, विस्मर्यन्तेऽतिकौतुकैः ॥४९०॥
"
हस्तन्तीमसतीमेतां, व्यक्तमूचेऽथ जम्बुकः । मां किं मांस - तिमिभ्रष्टं, नग्ने ! हससि निरस्त्र ! ? ॥४९१ ॥
D:\maha-k.pm5\ 2nd proof