________________
[१७५
अष्टमः सर्गः]
निद्राविद्राणचैतन्ये, तस्मिन्नथ निषादिनि । चौरः सञ्चारयाञ्चक्रे, करं कमलकोमलम् ॥४६६।। कथञ्चिदप्यथो राज्ञीकुचभूधरमूर्धनि । प्राणरक्षणदुर्गेऽस्य, तस्करस्य करो ययौ ॥४६७।। तत्कोमलकरस्पर्शमनुभूय नृपाङ्गना । मनोभवार्ता तं वार्तामपृच्छत् को भवानिति ॥४६८।। तेनोक्तमस्मि चौरोऽहमधिरोहन्मृतिर्यतः । एतच्चैत्यं चतुर्दिक्षु , मत्कृते वेष्टितं भटैः ॥४६९।। भयवन्तं ब्रुवन्तं तमित्याह क्षितिपाङ्गना । मा भैषीर्भवतः प्राणरक्षा दक्ष ! करिष्यते ॥४७०।। हृत्वा त्वया यदानीतं, तदस्योच्छीर्षके त्यज । तदेहि दूरतो यावस्तावदावां स्मितस्मरौ ॥४७१॥ निशम्य सम्यगायातमृत्युशान्तिमहौषधम् । एतस्या वचनं चौरश्चकार स यथोदितम् ॥४७२॥ क्षणेन साऽपि गौराङ्गी, चौराङ्गीकरणोद्यता । हस्त्यारोहममुञ्चत् तं, चित्तं को वेत्ति योषिताम् ? ॥४७३।। अथोदिते द्युतिपतौ, ध्वान्तद्रुमदवानले । विविशुर्विवशाः कोपाच्चैत्यं चौरार्थिनो भटाः ॥४७४।। लोप्नवन्तं तदाऽऽरक्षाः, क्रोधाद् दधुनिषादिनम् । तन्वन्तस्तुमुलारावमुल्ललन्तस्तदा मुदा ॥४७५॥ सेयं मुग्धा मम वधूश्चौरेण जगृहे पुनः । नाहं चौर इदं जल्पन् , स ततश्चकृषे भटैः ॥४७६।। समं मलिम्लुचेनाथ, नाथभूतेन पांशुला । चचाल चैत्यतस्तस्मात् , कलङ्ककनिकेतनम् ॥४७७।। प्रस्थिताभ्यामथैताभ्यां, ददृशे पुरतः सरित् ।
अम्भःकुम्भिकरोदञ्चदम्बुचुम्बितटद्रुमा ॥४७८।। १. हेऽमुना । ना० खंता० ॥
D:\maha-k.pm5\2nd proof