________________
१७४]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् हाहाकारमथाऽऽधाय, पूर्लोकः शोकपूरितः । ईदृक्षं रक्ष रक्षेभमिति भूपं व्यजिज्ञपत् ॥४५३।। रोषदोषखनिः क्षमापस्तमुपेक्ष्य पुरीजनम् । उवाच पातयेत्युच्चैस्तदा हस्तिपकं पुनः ॥४५४।। तृतीयं मेण्ठनुन्नोऽथ, पादमुत्पाटयन् करी । गिरावेकपदस्तस्थौ, तपस्यन्निव मुक्तये ॥४५५। लोकैरथ भृशं हाहाकारव्याहारवीचिभिः । क्षपितः क्षितिपालस्य, कोपाग्निः करिणं प्रति ॥४५६।। अथावनीधवेनायं, निषादी भाषितस्तदा । कथञ्चिदुत्तरत्येष, करी जीवन् गिरेरिति ॥४५७।। आवां मुञ्चसि जीवन्तौ, यद्युत्तरति तत् करी । इति विज्ञपयामास, मेण्ठः पृथ्वीपतिं प्रति ॥४५८।। अभयं ते वयं दद्मः, पद्मासद्म द्विपं मम । उत्तारय रयादेतत् , तदाऽऽदिशदमुं नृपः ॥४५९॥ इत्यादेशान्नरेशस्य, मुदितेन निषादिना ।
उत्तारितः करी शैलादात्मा च यममन्दिरात् ॥४६०।। ६६ अथ चक्षुष्पथं भर्तुर्विहाय सहितस्तया ।
चचाल सोऽयमुत्तालगतिर्देशान्तरं प्रति ॥४६१।। प्रान्ते ग्रामस्य कस्यापि, निशि देवकुलान्तरे । तौ लीनौ नलिनक्रोडे, तस्थतुर्धमराविव ॥४६२॥ समयेऽथ निशीथस्य, ग्रामतः कोऽपि तस्करः । सलोप्तः प्राविशच्चैत्यं, तलारक्षैरनुद्रुतः ॥४६३॥ उदिते विदितो भानौ, ग्राह्योऽयमिति निश्चयात् । उर्खास्ते पत्तयश्चैत्ये, दध्रु रन्ध्रवप्रताम् ॥४६४।। सोऽपि चौरश्चरन्नन्तश्चैत्यमग्रस्फुरत्करः । लुठितस्याथ मेण्ठस्य, शरीरं पाणिनाऽस्पृशत् ॥४६५।।
D:\maha-k.pm5\2nd proof