________________
[१७३
अष्टमः सर्गः]
सा तु दुष्टा बिभेमीति, भाषमाणा महीभुजा । हताऽभिमन्त्रितेनेव, पद्मन पतिता भुवि ॥४४०।। अथास्या जघनं राजा, शृङ्खलाकिणकश्मलम् । ददर्श शैवलालीढजाह्नवीपुलिनोपम् ॥४४१॥ अथाऽऽह तां हतां राजा, कोपाटोपारुणेक्षणः । अन्यासामपि भीरूणां, भीरुतां प्रतिपादयन् ॥४४२।। यासि द्विपकराज्जारं, बिभेषि तु कटद्विपात् । मोदसे शृङ्खलाघातैः, पद्मघातैस्तु मूर्च्छसि ॥४४३।। इति ब्रुवन् ध्रुवं भाले, समारोप्यातिकोपनः । धृत्वा केशेषु लोकेशः, कृष्टवान् पिष्टवाँश्च ताम् ॥४४४॥ अथ हस्तिपकं हस्तिराजं हस्तिगतिं च ताम् । हन्तुं नूतनमारेण, नृपः किञ्चिदचिन्तयत् ॥४४५।। ततः क्षितिपतिः साकं, साकम्पैः स्वजनैर्भयात् । वैभारपर्वतं यातो, निन्ये तत्र च तत् त्रयम् ॥४४६।। अथाऽऽदिशन्नृपो हस्तिपकं साकं स्त्रियाऽनया । आरुह्यारोपय रयाद् , द्विपं मूनि गिरेरिति ॥४४७॥ सममृत्यु-समस्थानगतिहर्षादुभाविभम् । अधिरूढावथाम्भोदं, रोहिणी-शशिनाविव ॥४४८।। हस्ती हस्तिपकेनाथ, प्रेरितो गिरिमूर्धनि । आरुरोह पयोवाह, इव मन्देन वायुना ॥४४९।। अथाऽऽरूढं गिरेनि, मेण्ठमाज्ञापयन्नृपः । पातयैनं द्विपं शैलात् , कैलासगिरिगौरवात् ॥४५०॥ इत्युक्ते क्षितिनाथेन, निषादिकृतसंज्ञया । एकोऽम्बरे निरालम्बश्चरणः करिणा कृतः ॥४५१॥ पातयेति नृपादेशान्मेण्ठनुन्नः पुनः करी । पादं द्वितीयमुद्दधे, समारोढुमिवाम्बरम् ॥४५२॥
D:\maha-k.pm5\2nd proof