________________
१७२]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् तूर्णं गवाक्षमारुह्य, स्वर्णकारोऽपि कौतुकी । सविस्मयस्तयोस्तानि, क्रीडितानि व्यलोकयत् ॥४२८।। तं हस्तिपकमालिङ्गय, प्रत्यूषसमयेऽथ सा । राज्ञी करिकरेणैव, प्रस्थिता प्रतिजालकम् ॥४२९॥ स्वस्थाने स्वर्णकारोऽपि समागत्याऽऽशु सुप्तवान् । वासवेश्मनि सुष्वाप, साऽपि क्षितिपवल्लभा ॥४३०॥ हृदि दध्यावथ स्वर्णकारस्तच्चरितस्मितः । के वयं ? यन्नरेन्द्राणामप्यसौ विप्लवप्लवः ॥४३१॥ इति निर्वृतिमासाद्य, सद्यो निद्रां प्रियामिव । भेजे चिरतरप्राप्तिगाढाश्लेषपरामसौ ॥४३२|| अथाकथ्यत भूपाय, सुप्तः परिजनैरयम् । सुघोरघुघुरारावजितसूकरयूथपः ॥४३३॥ निद्रा तथा विनिद्रेण, तेनाद्य यदवाप्यत । तन्मन्ये कारणं किञ्चिदुत्थाप्यस्तदसौ न हि ॥४३४।। इत्यादिष्टपरिवारस्तं सप्तमदिनोत्थितम् । रहस्याकार्य पप्रच्छ, माप: स्वापस्य कारणम् ॥४३५।। समग्रं चरितं तस्मिन् , निवेद्याथ गते सति । राजा समजनि क्रोध-त्रपासन्तप्तमानसः ॥४३६।। अथ कृत्वा किलिञ्चेन, कुञ्जरं राजकुञ्जरः । स्थित्वा रहसि राज्ञी: स्वाः, समाहूयेदमब्रवीत् ॥४३७॥ दुःस्वप्नोऽद्य मया दृष्टस्तत् सत्यीकृत्य हन्यताम् । पर्यस्तवसनं हस्तिन्यस्मिन्नारुह्यतामिति ॥४३८।। इत्यादिष्टा नरेन्द्रेण, सर्वाः शुद्धान्तयोषितः ।
उत्तेरुर्द्विपमारुह्य, पूर्वादिमिव तारकाः ॥४३९॥ १. "रघर्घरारा' खंता० ॥ २. त्वा कलि° पाता० ॥ ३. ह्यतां ततः खंता० ॥ ४. तारिकाः खंता० ॥
D:\maha-k.pm5\2nd proof