________________
अष्टमः सर्गः ]
[ १७१
असत्यं हन्ति पादाधश्चारिणं यः क्षणाज्जनम् । यक्षस्य तस्य ते चैत्ये, जग्मुर्दुर्गिलया समम् ॥ ४१५।। स्नात्वा पवित्रगात्रा सा, यावच्चैत्याय गच्छति । तावद् ग्रहिलतादम्भाज्जारेणाऽऽ लिङ्गिताऽग्रतः ॥ ४१६॥ धिग् ! धिग् ! मा मा स्पृश त्वं मां वदन्तीत्यथ दुर्गिला । तस्माद् विमोचिता पार्श्ववर्तिभिः स्नपिता पुनः || ४१७॥ अथ चैत्यान्तरे गत्वा, यक्षं सम्पूज्य च स्वयम् । सा भालकुड्मलीभूतपाणिपद्मा व्यजिज्ञपत् ॥ ४१८॥ मुक्त्वा करग्रहीतारं, ग्रहिलं च नरो यदि । कोऽपि लग्नो मदङ्गे तद्, देव ! कार्याऽस्मि भस्मसात् ॥४१९ ॥ इत्युदीर्य तदा यक्षे, संशयारूढचेतसि । अधश्चरणयोरेषा, निःससार धियांनिधिः ॥४२०॥ शुद्धाशुद्धेति वाचस्तत्, तालास्फालनगर्भिताः I उल्लासिता जनशतै, रुरुधुर्गगनाङ्गणम् ॥४२१॥ स्वयंदृष्टान्यपार्श्वस्थस्नुषासंशुद्धिचिन्तया । तदादि देवदत्तस्य, निद्रा नायादहर्निशम् ॥४२२॥ दिनैः कतिपयैर्मत्वा, विनिद्रं तं पुराधिपः । निजस्यान्तःपुरस्यान्तश्चकार किल यामिकम् ॥४२३॥ सुप्तो जागर्ति वा सोऽयमित्युत्थाय मुहुर्मुहुः । रोज्ञीमेकां स पश्यन्तीं, ज्ञात्वा सुप्तोऽथ कैतवात् ॥४२४॥ सत्यसुप्तमिमं ज्ञात्वा, राज्ञी जालकनिर्गता । अधस्ताद्धस्तिना निन्ये, भूतलं तलवर्तिना ॥४२५॥
अथ हस्तिपकेनासौ, कुपितेन चिरागता । हस्तिहिञ्जीरघातेन, निजघ्ने जघने घनम् ॥४२६॥
जाग्रद्यामिकवृत्तान्तकथनेन प्रसेदुषा ।
तेन सा ध्वस्तकोपेन, समं चिक्रीड निर्भरम् ॥४२७||
१. 'यैर्ज्ञात्वा खंता० ॥ २. किं मां पश्यति राज्ञीति, ध्यात्वा सुप्तः स कै पाता० ॥ ३. सुप्तः स कै° खंता० ॥ ४ ° प्तममुं ज्ञा' खंता० ॥ ५. °स्तिहञ्जी' पाता० ॥
D:\maha-k.pm5\ 2nd proof
5
10
15
20
25