________________
१७०]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् दुर्गिला तु समालिङ्गय, निद्रारसवशीकृतम् । पतिं जागरयामास, मांसलस्नेहनाटिका ॥४०२।। महेलया तया साधू, वधितोद्दामहेलया । तदा विद्राणनिद्रोऽयं, चिक्रीड व्रीडमुक्तया ॥४०३।। तत्राथोपवने नीत्वा, तं रतिश्रान्तिशान्तये । निद्रामुद्रितनेत्राब्जं, वीडितेव जगाद सा ॥४०४।। पादादुत्तार्य मञ्जीरं, मम पश्य पिता तव । अयं प्रयाति निर्लज्जः, कुलाचारः क एष व: ? ॥४०५।। सहोपपतिना सुप्ता, गुप्ताऽसौ विपिनान्तरे । ध्यात्वेति त्वत्पिता मन्ये, चकर्ष मम नूपरम् ॥४०६॥ तत् साक्षादेव भाषस्व, पितरं हितरञ्जक ! । कलङ्कं मत्कुले प्रातरयमानेष्यतेऽन्यथा ॥४०७।। निशम्येति गिरं देवदिन्नः कान्तामवोचत । शीलैकसज्जे ! लज्जेऽहमिदानीमेव तं ब्रुवन् ॥४०८॥ वक्ष्ये प्रातस्त्विति स्पष्टसन्धाकर्तरि भर्तरि । असौ सुष्वाप निस्तापा, पटुः कपटनाटके ॥४०९॥ देवादिन्नोऽथ कोपेन, पावकेनेव सज्वलन् । प्रिययोत्थापितः प्रातः, प्रयातः पितरं प्रति ॥४१०॥ मयैव सह सुप्ताया, वधूट्या नूपुरं हृतम् । भ्रान्तेन भवता यत् तदर्ग्यतामित्यवोचत ॥४११॥ युग्मम् ।। सुतं तमिति वक्तारमाह स्वर्णकृदग्रणीः । त्वां वीक्ष्य सुप्तमत्रास्याः, पांशुलाया हृतं मया ॥४१२।। अथेति श्वशुरेणोक्ते, दुर्गिला साऽऽह साहसात् । भुज्यते प्रविधाय स्वं, निष्कलङ्कं कुलं किल ॥४१३।। अथो सुवर्णकारेण, कुटुम्बं मेलितं निजम् ।
स्वजना दुर्गिलायाश्च, समाहूताः समन्ततः ॥४१४।। १. वनं नी वता० ॥
20
25
D:\maha-k.pm5\2nd proof