________________
अष्टमः सर्गः ]
इमां चे शान्तसन्तापां, दत्तप्रस्तुतवस्तुतः । चकार कारणं सिद्धेः, स्मरस्मरणदुर्मदः ॥ ३९०॥ अथ मन्मथदीपेन, प्रकाशितपथो निशि । स्मरार्तो देवदत्तस्य तस्य धाम जगाम सः ॥ ३९१॥ पाश्चात्यवर्त्मना कामविवशः प्रविशन्नसौ । ददर्श दुर्गिलामग्ने, साऽपि तं स्निग्धया दृशा ॥३९२॥ समाप्य गृहकृत्यानि, पत्यौ निद्रावशंवदे । ययावुपपतिं हृष्टा, सा गृहोपवनावनौ ॥३९३॥ अनारतरतश्रान्ता, सह तेन हताशया ।
सा स्वापमाप तत्रैव, समं भर्त्रेव निर्भरम् ||३९४|| तदानीं कायचिन्तार्थमुत्थायोपवनं गतः । देवदत्तः स्नुषां तत्र, तदवस्थां व्यलोकयत् ॥ ३९५॥
४
विपश्चिन्निश्चयायाथ, सुतवासगृहं गतः । एकाकिनं सुतं वीक्ष्य, प्राप्तस्तत्र वने पुनः ॥ ३९६॥ रुषा स्नुषापदाम्भोजादभिज्ञानकृते कृती । मन्दं मन्दं स्वहस्तेन, मञ्जीरमुदतीतरत् ॥३९७॥ क्रमादुत्तार्यमाणे सा, नूपुरे जातजागरा । गुरुमालोकयामास, यान्तं कलितनूपुरम् ॥३९८॥ ससम्भ्रममथोत्थाय, कृपणा प्राणवल्लभम् । नूपुरोत्तरवृत्तान्तं, सनिर्वेदं न्यवेदयत् ॥३९९॥ क्रियमाणे प्रिय ! प्रातर्दिव्ये साहायकं त्वया ।
किञ्चिन्मम विधातव्यं, सेत्युक्त्वा विससर्ज तम् ||४००||
वहन्नत्यद्भुतं भीतिभारं सोऽपि युवा जवात् ।
पथा यतागतेनाधोवदनः सदनं ययौ || ४०१ ॥
१. च सान्तःसन्ता° खंता० ॥ २. 'हकर्माणि, पत्यौ खंता० ॥ ३. हानेन पाता० ॥
४. निश्चिकायाथ वता० ॥
[ १६९
D:\maha-k.pm5 \ 2nd proof
5
10
111
15
20