________________
१६८]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् तापसी तापशीर्णाङ्गमनङ्गाहतमाह तम् । प्रीता क्रीताऽस्मिन दानेन, किङ्करेव करोमि किम् ? ॥३७७॥ युवाऽप्युवाच तां मातर् !, देवदिन्नस्य वल्लभाम् । देवदत्तस्नुषां नाम्ना, दुर्गिलां मम मेलय ॥३७८।। प्रार्थिता कुर्वती केलिलीलां कल्लोलिनीजले । मम भ्रूभङ्गभङ्गीभिः, सङ्गमङ्गीचकार सा ॥३७९।। तदूरीकृत्य सा भैक्षच्छद्मना सद्मगामिनी । जगाद दुर्गिलां व्यग्रां, स्थालीक्षालनकर्मणा ॥३८०।। तया कुपितया तादृग् , वदन्ती तापसी ततः । निर्भय॑ पृष्ठे हस्तेन, हता स्थालीमषीजुषा ।३८१।। इत्यवज्ञावशाज्जातपश्चात्तापाऽथ तापसी । तदेतत् कथयामास, तस्यावासमुपेयुषी ॥३८२।। वीक्ष्य दक्षः स तं हस्तं, श्यामं पञ्चाङ्गुलीयुतम् । स्वं कृष्णपञ्चमीरात्रौ, निमन्त्रितममन्यत ॥३८३।। स पञ्चेषुप्रपञ्चेषु , विपश्चित् पञ्चमीतिथौ । तपस्विनी पुनः प्रैषीद् , भक्तिभिर्दुर्गिलां प्रति ॥३८४।। अविलक्षा च सा भिक्षादम्भसंरम्भसंवृता । देवदत्तगृहं गत्वा, पुनस्तामाह साहसात् ॥३८५।। उच्चैः प्रपञ्चिताटोपा. सकोपा साऽपि तापसीम । निर्भय॑ गृहपाश्चात्यद्वारेण निरसारयत् ॥३८६।। व्रीडा-पीडाभराभुग्नकन्धराबन्धबन्धुरा । अथाकथयदस्मै सा, रुदती सुदती कथाम् ॥३८७।। तदुक्तपश्चिमद्वारनिष्कासकथया ततः । अयमाहूतमात्मानं, मेने पश्चिमवर्त्मना ॥३८८।। निष्पन्नमात्मनः कार्य, मत्वा स प्राह तापसीम् ।
वाच्या न क्वापि पापिष्ठा, मातः ! साऽतः परं त्वया ॥३८९।। १. °लीवृतम् खंता० पाता० ॥ २. सा दक्षा खंता० ।।
20
25
D:\maha-k.pm5\2nd proof