________________
10
अष्टमः सर्गः]
[१६७ एकदा सा स्वयं नद्यास्तीरे नीरेच्छया ययौ । वक्षोजतुल्यताप्रीत्या, कुम्भौ मूर्धनि बिभ्रती ॥३६४।। घटो तटे तटिन्याः सा, मुक्त्वा मज्जनकाङ्क्षया । विवेश पयसः क्रोडं, निर्वीडक्रीडया रयात् ॥३६५।। सहेलं तत्र खेलन्ती, महिलां ग्रहिलां मदात् ।। व्यालोकयद् युवा कोऽपि, कन्दर्पज्वरजर्जरः ॥३६६।। तरुणस्तां प्रति प्राह, स साहसनिधिस्ततः । तव पृच्छन्ति सुस्नातं, तरवस्तन्वि ! नन्विमे ॥३६७।। तयाऽपि तन्मन:सभ्यमभ्यधायि तदा मुदा । एभ्यः स्वस्ति तरुभ्योऽस्तु , स्पृहा पूर्णाऽस्तु पृच्छते ॥३६८॥ मदनस्तदनेनामुं, वचसा जितपत्रिणा । जघान हृदये तूर्णं, घूर्णमानशिरोऽम्बुजम् ॥३६९।। तत्तद्भाषितपीयूषैः, सिक्तेऽस्य वपुषि क्षणात् । श्यामो रराज रोमाञ्चः, शृङ्गाराङ्करकोटिवत् ॥३७०।। बालान् फलार्थिनस्तीरसहकारतरोस्तले । कृत्वा फलभरैः प्रीतानपृच्छत् केयमित्यसौ ॥३७१।। नाम्ना धाम्ना च तां मत्वा, शिशुभ्यः स वहन् मुदम् । कृतार्थप्रायमात्मानं, मेने मन्मथसन्निभ ॥३७२।। स्नात्वा साऽपि सरित्तीरे, स्थिता साकं सखीजनैः । जलक्लिन्नाङ्गसंलग्नस्वप्रभानिहुतांशुका ॥३७३।। घ्नती कटाक्षनाराचैरमुं भ्रूचापचापलात् । चचालाथ मनःस्मेरमदना सदनाय सा ॥३७४।। चक्षुष्पथमथ त्यक्त्वा, गतायां तत्र तापवान् । तदङ्गसङ्गसुभगे, तत्राम्भसि ममज्ज सः ॥३७५।। उपचारैस्ततः स्फारैः, कामी कामपि तापसीम् ।
अयमाराधयामास, कुलटाकुलदेवताम् ॥३७६।। १. कदापि सा खंता० ॥
D:\maha-k.pm5\2nd proof