________________
१६६]
[सङ्गपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् पपात वातकम्पेन, प्रमोद इव पिण्डितः । मणिस्तस्य करादब्धौ, रविरस्तगिरेरिव ॥३५२।। स्थाप्यतां स्थाप्यतां पोतो, मुषितोऽस्म्यहमब्धिना । इत्थं कलकलैः पूर्णं, तेने तेनेदमम्बरम् ॥३५३॥ धनदेवस्ततः पोतं, मरुद्गतिमतिष्ठिपत् । कुतस्त्वमाकुलतमस्तमपृच्छदतुच्छधीः ।।३५४।। प्रभाजितनभोरत्नं, चिन्तारत्नं ममापतत् । तदुद्धारय पाथोधेरस्मादस्माँश्च दुःखतः ॥३५५।। जीवितव्यं मयि स्वस्मिन् , कीर्तिरारोप्यतां त्वया । हर्षात् कर्षय रत्नं तमित्युवाच शुचैव सः ॥३५६।। यत्र लोकचमत्कारि, भवताऽकारि शब्दितम् । तदत्याजि पयो दूरे, वायुपूरेद्धपोततः ॥३५७।। उत्तार्यं तन्मनः खेदान्नेदानीं लभ्यते मणिः । नौवित्तेनेति नीतिज्ञो, बोधितो मौनमाप सः ॥३५८॥ तद्वदत्र भवाम्भोधौ, रत्नं मानुषजन्म यत् ।
सुधर्मस्वामिपोतेऽपि, लब्धे किं हारयामि तत् ? ॥३५९।। ६६ पद्मसेनाऽथ निश्छद्मसेना कन्दर्पभूभुजः ।
श्रीजम्बूस्वामिनं प्राह, व्रतोत्साहधुरन्धरम् ॥३६०॥ मा भूस्त्वमुभयभ्रष्टस्तौ राज्ञी-जम्बुकौ यथा ।
तयोः शृणु कथामेतामस्मिन्नेव पुरे पुरा ॥३६१।। [राज्ञी-जम्बुकयोराख्यानकम्]
धनेन धनदाकारः, स्वर्णकारशिरोमणिः । देवदत्त इति ख्यातिपात्रं धात्रीतलेऽभवत् ॥३६२॥ तस्याभूद् देवदिन्नाख्यः, सूनुर्विष्णोरिव स्मरः ।
कामभूमीपतेदुर्गं, दुर्गिलाऽस्य प्रियाऽभवत् ॥३६३।। १. `त्तार्य त° पाता० ॥ २. मा भूदुभयथा भ्रष्टो, दुर्गिलावद् भवानपि । तथा शृणु खंता० ॥
20
D:\maha-k.pm5\2nd proof