________________
अष्टमः सर्गः]
[१६५ अहं समं समेष्यामि, नासम्पूर्णमनोरथः । इत्थं स कथयामास, गन्तुकामोऽथ सुस्थिते ॥३४०।। समं तमसमायान्तमपि वित्तप्रदानतः । कृत्वा समुदितं तीर्णः, पोतेनार्ण:पतिं वणिक् ॥३४१।। स तथैव ततो रत्नखानि खनति नित्यशः । शतशो वार्यमाणोऽपि, तदधिष्ठातृदैवतैः ॥३४२।। अपरेछुः खनन्नेष, दारिद्य्ध्वान्तदीपकम् । चिन्तामणि पुरोऽपश्यद् , दुरापं किमु निश्चितैः ? ॥३४३।। असावथ नमस्कृत्य, चिन्तामणिमयाचत । स्वर्णलक्षमपश्यच्च, तत् तदैव गृहान्तरे ॥३४४॥ स्वर्णं रत्नं च तत् प्राप्य, तीरे नीरेशितुः स्थितः । नरस्य भग्नपोतस्य, संज्ञापदमुदञ्चयन् ॥३४५।। नौवित्तधनदेवस्य, गन्तुर्भोगपुरं प्रति । आरुरोह स बोहित्थे, नीतस्तत्प्रेषितैनरैः ॥३४६।। पोते तद्विदितं हेम्नामारोपयदयं चयम् । तेषामकथयच्चिन्तामणिं न तु रहस्यवत् ॥३४७।। एकदाऽसौ त्रियामायां, यामयुग्मे समुत्थितः । प्रीतो विभुं विभावर्या, विभावर्यं न्यभालयत् ॥३४८॥ एताः श्वेतांशुभासः किं ?, किं ताश्चिन्तामणित्विषः ? । भान्ति क्लान्तिभिदः सोऽथ, चेतस्येतदचिन्तयत् ॥३४९।। अथ भ्रान्तिभिदे मूढः, कटीपटकुटीपुटात् । चकर्ष हर्षसम्पूर्णः, पूर्णेन्दुस्पर्धिनं मणिम् ॥३५०॥ पश्यन्नसौ निशारत्नं, चिन्तारत्नं च तन्मुहुः ।
युतजातसुतद्वन्द्वनिभालिस्त्रीनिभो बभौ ॥३५१॥ १. सह समे° खंता० ॥ २. त्वा प्रमुदि° खंता० पाता० ॥ ३. किं सुनि खंता० ॥ ४. गन्तुं भोग खंता० ॥ ५. 'कुटीपटा खंता० पाता० ॥
15
D:\maha-k.pm5\2nd proof