________________
5
10
151
20
25
१६२]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम्
ss विस्मितेनावनीशेन, पृष्टा स्पष्टमुवाच सा । स्व:सोपानतरङ्गाया, गङ्गायास्तीरकानने ॥३०१॥ किलाऽऽसीद् वानरद्वन्द्वमद्वैतप्रीतिमन्दिरम् । निर्दम्भस्मरसंरम्भरसप्रसरपेशलम् ॥३०२॥ तदन्यदा निदाघर्ती, क्रीडारसवशंवदम् । सममेव समारूढं, तीरवानीरभूरुहम् ||३०३|| ततः शाखामृगः शाखां, मन्दमन्दोलयन्नयम् । दूरतो विनिपाताख्यं प्राप कापेयतः फलम् ||३०४|| वानरोऽयं नरो भूतस्तीर्थस्यास्य प्रभावतः । प्रियामालोकयामास, हर्षोत्सुक्यस्पृशा दृशा || ३०५॥ भैरवादिव वानीराद्, वानरी साऽपतत् ततः । नारीभूता पतीयन्ती, तमेव निजवल्लभम् ॥३०६॥ गता ननु मनुष्यत्वमथ साऽप्यहह ! क्षणात् । जातजातिस्मृतिरिव, स्मरन्ती कपिजन्म तत् ॥३०७॥ ततो रतिः स्मरेणेव प्रीतेन प्रेयसाऽथ सा । हर्षोत्कर्षादिहारण्ये, चिरं चिक्रीड संयुता ॥ ३०८॥ मुधाकृतसुधासाररससारतरैः फलैः ।
मुदा तदानीमेताभ्यां, हसिता घुसदोऽपि ते ||३०९॥ क्रीडँस्तया सहाऽन्येद्युस्तं वानीरमवाप्य सः । तामुवाच युवा चक्षुः, क्षिपन् प्रेमोन्मुखं मुखे ||३१०|| असौ पशूनां वानीरो, नरतां प्रथते यथा ।
तथा मन्ये मनुष्याणां, देवभावं प्रदास्यति ॥३११॥ प्रिये ! तदेहि वानीरमेनमारुह्य लीलया । पुनर्भूतलपातेन, देवभावोऽनुभूयते ॥ ३१२ ॥ मनुष्यत्वेऽपि किं तुच्छमावयोर्विद्यते प्रिय ! ? । तेन वल्लभ ! लोभोऽयमतिमात्रो न युज्यते ॥ ३१३॥
D:\maha-k.pm5\ 2nd proof