________________
अष्टमः सर्गः ]
अथाऽऽदाय नरेन्द्राय, ताममी काममूर्तये । अदर्शयन् वनाम्भोधिलब्धां श्रियमिव स्त्रियम् ॥२८८॥ एतां सुरनदीसेवाफलमाकलयन् नृपः । आदाय कुन्ददायाददशनामविशत् पुरीम् ॥२८९॥ सपत्नीं रत्नगर्भाया, रत्नगर्भितभूषणाम् । पुण्यपण्यपरिक्रीतस्तां वितेने नरेश्वरः ||२९०|| अपरेद्युः पुमान् कश्चिदिदं पुरमरञ्जयत् । अनार्तं नर्तयन्नेकं, वानरं नरजित्वरम् ॥ २९१।।
"
अथ भूपाय केनापि, तदकथ्यत कौतुकम् । सोऽपि चाऽऽकारयाञ्चक्रे, तं नरं धृतवानरं ॥ २९२॥ तां प्रियां स्वर्वधूबद्धस्पर्द्धामर्धासनस्थिताम् । कुर्वन्नुर्वीपतिर्भेजे, सम्मदैकास्पदं सदः ॥२९३॥ अनीनृतत् ततः सोऽपि, नरस्तं वानरं पुरः । तूर्याणि वादयन् दिक्षु, जिघृक्षुर्जनमानसम् ॥२९४॥ न वानरो नरनर्ति, ताडितोऽप्यमुना पुनः । नृपप्रियामुखाम्भोजन्यस्तदृष्टिस्तु रोदिति ॥२९५॥ विलक्षे भिक्षुकेऽथास्मिन् सा राज्ञी वानरं जगौ । अये ! मया निषिद्धस्त्वं तदा किमकृथास्तथा कृतक्षोभेण लोभेन, लम्भितोऽसीदृशीं दशाम् । हृताखिलकलाशोभोऽतिलोभो हि न शोभनः ॥२९७॥ बोधयित्वा तदात्मानं, मानं वानर ! मा कुरु । यो यथा वर्तते कालस्तं तथैवानुवर्तय ॥२९८॥ इति प्रबोधितो देव्या, नृत्यन्नत्यद्भुतं तदा । निर्व्याजं रञ्जयामास, वानरः स नरेश्वरम् ॥२९९॥ कृतार्थीकृत्य पृथ्वीशस्तं वानरधरं नरम् । किमेतदिति तां राज्ञीं, पप्रच्छ सपरिच्छदः ||३००|| १. 'ना ततः । नृप खंता० ॥ २ तथा प्रतिवर्तय खंता ॥
॥ २९६ ॥
D:\maha-k.pm5 \ 2nd proof
[ १६१
5
10
15
20
25