________________
[१६३
10
अष्टमः सर्गः]
वार्यमाणोऽपि वानीरात् , स वानरवरो नरः । झम्पासम्पातमाधाय, पुनर्वानरतां गतः ॥३१४।। पूरितो दुःखपूरेण, नरत्वस्पृहयाऽथ सः । पुनः पपात वानीराद् , गतः पुरुषतां न तु ॥३१५।। मानुष्यभावमोक्षाय, चटून्यतिपटूनि सः । तस्याश्चकार चक्रे तु , न तया तदमूढया ॥३१६।। साऽहं तस्य प्रिया प्राप्ता, वसन्ती निर्जने वने । त्वत्पत्तिभिः सरित्तीरे, कृष्टैर्मत्पुण्यतन्तुभिः ॥३१७।। अटव्यामटताऽनेन पतिः प्राप्तः स एष मे । दक्षेण शिक्षितो नृत्यं, मां वीक्ष्य विकलोऽभवत् ॥३१८॥ तत् प्राणेश ! मया सोऽयं, निर्बुद्धिर्बोधितोऽधुना । ततो मयि विसस्मार, प्रेमापस्मारमात्मनः ॥३१९।। इत्याकर्ण्य कृताश्चर्यां, कपेश्चर्यां स भूपतिः । लोभातिशयमेतस्य, दूषयामास मांसलम् ॥३२०॥ तत् पुण्यसम्भवान् भोगान् , मुक्त्वा काङ्क्षन् परं पदम् ।
नाथ ! त्वमुभयभ्रष्टो, हास्यः स इव मास्म भूः ॥३२१।। ६६ अथ स्म वाचमाचष्टे, जम्बूस्तां प्रेयसी प्रति ।
न स्यां विप्रतिसारस्य, वश्योऽहं पुण्यसारवत् ॥३२२॥ [पण्यासाराख्यानकम]
पुरं भोगपुरं भोगहारिनारीमनोहरम् । अस्ति हस्तिमदामोदराजिराजगृहाङ्गणम् ॥३२३।। श्रेष्ठी धनावहो नाम, तत्राजनि जनप्रियः । विभाव्य वैभवं यस्य, धनदोऽप्यधनायते ॥३२४।। प्रिया गुणवती तस्य, जज्ञे श्री: श्रीपतेरिव । मीनकेतुः स मीनत्वं, यल्लावण्योदधौ दधौ ॥३२५।। देवोपयाचितशतैः, पूज्यपूजोपबृहतैः । कृतप्रमोदसन्दर्भमथ गर्भं बभार सा ॥३२६।।
D:\maha-k.pm5\2nd proof