________________
१५८]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् इक्षु-गोधूमयो/जमेतैस्तस्य समर्पितम् । अरघट्टेक्षुवाटादिकर्मापि ज्ञापितं ततः ॥२५२॥ बीजं मुदा तदादाय, सदनाय समुत्सुकः । दुःस्थो धनमिवोपाM, तदाऽनार्यः स निर्ययौ ॥२५३।। सद्यः स्वग्राममासाद्य, वार्यमाणोऽपि नन्दनैः । जातकल्पमपि स्वल्पमतिः क्षेत्रं लुलाव सः ॥२५४।। सञ्चितेनाथ वित्तेन, तेन मण्डकलोभिना । पातालरूप: कूपोऽत्र, निर्मातुमुपचक्रमे ॥२५५।। खानं खानं ततः कूपं, नोदबिन्दुरपीक्षितः । तेन भाग्यच्युतेनेव, द्रव्यांशोऽपि धनार्थिना ॥२५६।। अधन्यस्य न धान्यानि, न चार्थश्चिरसाञ्चितः । अतिलुब्धस्य तस्याऽऽसन् , न च ते गुडमण्डकाः ॥२५७।। त्वमप्युपनतानेवं, प्रभो ! भोगान् परित्यजन् । मुक्तिश्रीसुखलोभेनोभयभ्रष्टो भविष्यसि ॥२५८।। अथ जम्बूकुमारोऽपि, तामुवाच वचस्विनि ! ।
मांसातिलोलकाकोलकेलिं न कलयाम्यहम् ।।२५९।। [मांसलोलुपस्य काकस्याख्यानकम् ]
धात्रीधम्मिल्तुल्योऽस्ति, प्रसिद्धो विन्ध्यभूधरः । सोत्सेकाः केकिनो यत्र, गर्जद्भिः कुञ्जरैर्घनैः ॥२६०॥ सक्षेप इव विन्ध्यस्य, महिमेव च जङ्गमः । कोऽपि क्रोडेऽस्य चिक्रीड, दुर्धरः सिन्धुरेश्वरः ॥२६१॥ अथ दुर्भूपवद् भीष्मे, ग्रीष्मे तापयति क्षितिम् । विन्ध्याद्रितनयां रेवां, सेवार्थमुपजग्मिवान् ॥२६२।।
स कुञ्जरो जरोपात्तशक्तिावस्खलत्पदः । 25
श्रोतस्तीरावनीखण्डे, गण्डशैल इवापतत् ॥२६३।। युग्मम् ॥ १. °मतिस्व खंतासं० पाता० ॥ २. चार्थाश्चिरसञ्चिताः खंता० ॥ ३. °ष्मग्री खंता० ॥
15
20
D:\maha-k.pm5\2nd proof