________________
अष्टमः सर्गः]
[१५७ साधोराधोरणस्येव, स तस्माद् वचनाङ्कशात् । उत्पथस्थितिमव्याजं, तत्याज श्रेष्ठिकुञ्जरः ॥२४०॥ पितृ-पुत्रादिसम्बन्धमवबुध्येति विप्लुतम् ।
मन्यते मित्र ! न त्राता, तदात्माऽपि कुतः सुतः ? ॥२४१॥ ६ अमुद्रश्रीः समुद्रश्रीः, प्रियमित्थमथाभ्यधात् ।।
प्रेममुक्त ! मयाऽप्युक्तं, युक्तमित्यवधार्यताम् ॥२४२॥ इमां विभूतिमुद्भूतां, मुक्त्वा मुक्त्यै कृताग्रहः ।
मा भूस्त्वमुभयभ्रष्टः, स्वामिन् ! स इव कर्षुकः ॥२४३।। [कृषिकाराख्यानकम्]
ग्रामः सुसीमनामाऽस्ति, सीमन्तो देशसम्पदः । निवासदुर्गं यः श्रीणां, सर्वतः कणपर्वतैः ॥२४४।। तत्राऽभूत् कषुकः कोऽपि, ग्रामीणग्रामणीर्महान् । कङ्ग-क्रोद्रवमुख्यानि, धान्यानि वपति स्म सः ॥२४५।। अथ धान्योत्करे तस्मिन् , प्राच्यपुण्य इवोद्गते । अकुण्ठस्वजनोत्कण्ठो, दूरग्रामं जगाम सः ॥२४६।। जहषुः कषुके तत्र, दृष्टेऽपि स्वजनास्ततः । घनाघन इवौत्सुक्यप्रचलाः प्रचलाकिनः ॥२४७॥ तं नमश्चक्रिरे केऽपि, केऽपि तेन च नीचकैः । गृहं तदा तदीयं तत् , तोषैकार्णवतां गतम् ॥२४८।। अथो पृथुगुडस्पष्टस्वादुमण्डकमण्डलीम् । अभुक्तपूर्वी पूर्णेन्दुमालामिव स भोजितः ॥२४९॥ सहर्षः कषुकोऽवादीत् , ततस्तान् स्वजनान् निजान् । भोः ! सुधाऽपि मुधा तत्र, यत्रैते गुडमण्डकाः ॥२५०।। तद् दत्त बीजमेतेषां, निजग्रामे वपामि यत् ।
येन तस्मिन् समस्तोऽपि, स्यात् सुधाभोजनो जनः ॥२५१॥ 25 १. °धाऽप्यत्र पाता० ॥
15
D:\maha-k.pm5\2nd proof