________________
१५६]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् सोऽन्यदा महिषं हत्वा, जनकश्राद्धपर्वणि । अङ्कस्थं तस्य मांसेन, लग्नो भोजयितुं सुतम् ॥२२७।। तदा च गृहमभ्येत्य, वलितो वक्रिताननः । दृष्टश्रेष्ठी मुनिश्रेष्ठः, पठन् श्लोकमिमं मुहुः ॥२२८।। पुष्णाति स्वपितुर्मासैः, शत्रुमुत्सङ्गसङ्गिनम् ।। विधत्ते च पितुः श्राद्धमहो ! मोहविजृम्भितम् ॥२२९।। महेश्वरस्तदाकर्ण्य, तूर्णमेत्य मुनीश्वरम् । नत्वाऽपृच्छत् प्रभो ! प्रोक्तं, किमेतदसमञ्जसम् ? ॥२३०।। इत्याग्रहपरे तत्रोवाच वाचंयमाग्रणीः । विज्ञाय ज्ञानतस्तस्योपकारं करुणापरः ॥२३१॥ नागिलायाः किलाऽऽयातो, यस्त्वयोपपतिः पुरा । अघानि घनमावासक्रोडे क्रीडन् यदृच्छया ॥२३२।। तत्कालमेव मुक्तात्मवीर्य एवावतीर्य सः । नागिलोदरजातत्वात्, तवायं तनयोऽभवत् ॥२३३।। महिषस्याऽऽमिषैर्यस्य, भवता तर्पितः पिता । जीवः समुद्रदत्तस्य, स एष भवतः पितुः ॥२३४॥ याऽसौ शुनी पुनरि, महिषास्थीनि खादति । मन्यस्व मतिमन्नेतां, स्वामम्बां बहुलाभिधाम् ॥२३५।। त्वद्गृहे ज्ञानतो ज्ञात्वा, तदेतदसमञ्जसम् । तद्बोधाय तव श्लोकं, पठित्वा वलितोऽस्म्यहम् ॥२३६।। यदिदं भवताऽऽख्यातमत्र कः प्रत्ययः प्रभो ! ? । पृष्टो महेश्वरेणेति, स मुनिः पुनरब्रवीत् ॥२३७॥ अन्तर्गहं शुनी नीता, जातजातिस्मृति: सती । रत्नजातं तदेषा तन्निखातं दर्शयिष्यति ॥२३८।। इत्युदित्वा मुनौ याते, या तेन कथिता शुनी । तत्तथा दर्शितं तस्मै, तयाऽन्तर्गृहनीतया ॥२३९।।
D:\maha-k.pm5\2nd proof