________________
[१५५
अष्टमः सर्गः]
F अथो मिथोविरुद्धं तन्निशम्य शमिनीवचः ।
कुबेरोऽपृच्छदागत्य, किमेतदिति विस्मयी ॥२१५।। इति तस्मै कुबेराय, पृच्छते व्रतिनी ततः ।। तन्मुद्रारत्नमज्ञानध्वान्तदीपमिवाऽऽर्पयत् ॥२१६॥ मुद्रारत्नेन तेनाथ, दिननाथनिभेन सः । प्रबुद्धोऽन्तर्गतं मोहं, भृङ्गं पद्म इवामुचत् ॥२१७।। लज्जित: स्वचरित्रेण, गृहीत्वा व्रतमुज्ज्वलम् । धीमान् कुबेरदत्तोऽसौ, यौवनेऽपि ययौ वने ॥२१८।। व्रतव्रततिवृक्षेण, यशोनिर्झरभूभृता । कर्मकुञ्जरसिंहेन, तेनारण्यानि रेजिरे ॥२१९।। भावनां भायन्नेष, स्मृतपञ्चनमस्कृतिः । जगाम त्रैदिवं धाम, कामसामजकेशरी ॥२२०।। मत्वा कुबेरसेनाऽपि, तादृग् विषयविप्लवम् । भवे विरक्ता जग्राह, गृहवासोचितं व्रतम् ॥२२१।। इत्थं कथाप्रथापाथोधौतमोहमलस्य मे । कुतो ज्ञातेयसम्बन्धः, प्रभव ! प्रभविष्यति ? ॥२२२।। राजपुत्रः पुनः प्राह, कुतोऽपुत्रस्य ते गतिः ? ।
जगाद जम्बूः पुत्रस्य, कथयामि कथां शृणु ॥२२३।। [महेश्वरदत्ताख्यानकम् ]
अस्ति देवालयस्तम्भोत्तम्भितव्योममण्डपा । निकेतमालिनी ख्याता, पुरी नाम्ना तमालिनी ॥२२४।। श्रीमहेश्वरदत्तोऽभूदिभ्यस्तत्र पुराग्रणीः । प्रथितः प्रौढमिथ्यात्वपाथोधिजलकुञ्जरः ॥२२५।। दुश्चारिणीकुलाचार्यभूता भूताऽस्य वल्लभा ।
नागिलेति पुरि ख्याता, कामारामैकसारणिः ॥२२६।। १. प्रथितप्रौढ खंता० ॥
D:\maha-k.pm5\2nd proof