________________
१५४]
[सङ्गपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् ६६ अथोत्पन्नावधिज्ञाना, बन्धोर्बोधार्थिनी ततः ।
सर्वं कुबेरदत्ता तदपश्यदसमञ्जसम् ॥२०२॥ गोपितस्वाङ्गलीयाऽसावनुज्ञाप्य प्रवर्तिनीम् । भवाब्धौ मज्जतो भ्रातुर्बेडेव मथुरां ययौ ॥२०३।। पुर: कुबेरसेनाया याचित्वा वसतिं च सा । तस्थावस्थानकेऽप्यन्योपकृतिः कृतिनां व्रतम् ॥२०४॥ पुरः स्फुरन्तमालोक्य, कुबेराङ्गजमन्यदा । व्रतिनी व्रतिनीतिज्ञा, सा बभाषे मृषोज्झिता ॥२०५।। बाल ! त्वमसि मे पत्युः, सोदरत्वेन देवरः । माता तथाऽऽवयोरेका, तेनासि मम सोदरः ॥२०६॥ जातोऽसि मम पत्या त्वमपत्यमिति तेन मे । त्वत्पिता मे सपत्नीभूः, पौत्रस्त्वमसि मे ततः ॥२०७॥ मन्मातुः पतिसोदर्यस्त्वं पितृव्योऽसि तन्मम । सहोदरस्य सूनुस्त्वं, भ्रातृव्योऽप्यसि मे ततः ॥२०८॥ माताऽपि तव माता मे, धृतावावां ययोदरे । सा मन्मातृभुजङ्गस्य, माता तन्मे पितामही ॥२०९॥ मत्सपत्नीतनूजस्य, पत्नी सा मे वधूरिति । मद्भर्तुः साऽभवन्माता, मम श्वश्रूरतो मता ॥२१०॥ मद्वान्धवस्य पत्नी सा, भ्रातृजाया ततो मम । सा पुनर्मत्पतेः पत्नी, सपत्नीति ममाभवत् ॥२११॥ मज्जनन्या भुजङ्गो यत् , त्वत्पिता तत् पिता मम । मपितृव्यस्य ते सोऽभूत् , पिता तन्मे पितामहः ॥२१२॥ मम तस्य च माताऽभूदेका मे सोदरः स तत् । मद्भर्तृजननीभर्ता, स तेन श्वशुरोऽपि मे ॥२१३॥ स च जग्राह मत्पाणिं, जातः पतिरतो मम ।
स मदीयसपल्याश्च, सूनुः सूनुर्ममाऽप्यतः ॥२१४॥ १. मत्सपल्या त्व खंता० ॥ २. °व्यः स ते पाता० ॥
20
25
D:\maha-k.pm5\2nd proof